________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. ८-९]
मुद्राबन्धाख्यानं
[ आवाहनमुद्रा] किञ्चिदाकुञ्चयेद्धस्तं दक्षिणं हृदयोपगम् । अङ्गुष्ठो विरलस्पष्टो मुद्रा ह्यावाहने स्मृता ॥ १११ ॥
[विसर्जनमुद्रा] खगधारासमाकारा विरलाङ्गुलिकावुभौ । अङ्गुष्ठौ दण्डवत्कृत्वा मुष्टिबन्धं शनैश्शनैः ॥ ११२ ॥ कुर्यात्कनिष्ठिकादिभ्यो मुद्रैषा स्याद्विसर्जने ।
[सुरभिमुद्रा] ग्रथितौ [द्वौ] करौ कृत्वा सुश्लिष्टौ चाप्यधोमुखौ ॥ ११३ ॥ कनीयसौ तदाङ्गुष्ठौ सुश्लेषेण नियोज्य च । मध्यमाङ्गुलियुग्मं तु अन्योन्यकरपृष्ठगम् । विक्षिप्तानामिकायुग्मं तर्जनीयुगलं तथा ॥ ११४ ॥ मुद्रपा कामधेन्वाख्या सर्वेच्छापरिपूरणी । द्विपकारं तु 'मुद्राणां प्रयोग नित्यमाचरेत् ।। ११५ ॥ संविन्मयं तु चाध्यात्मरूपं भास्वरसंपुटम् । बाह्यान्तस्त्रिविधं विष कर्मवाक्चित्तजं तु यत् ॥ ११६ ॥ अनेन विधिना मुद्रा यो बधाति विधानवित् । तेनेदं मुद्रितं विश्वमपुनर्भवसिद्धिदम् ॥ ११७ ॥ इति श्रीपाश्चरात्रे जयाख्यसंहितायां मुद्राबन्धाख्यानं नाम अष्टमः पटलः । अथ पाञ्चरात्रे जयाख्यसंहितायां स्नानविधिर्नाम नवमः पटलः ।
श्रीभगवान् । अथाधिकारसिद्ध्यर्थ स्नानं वक्ष्यामि पूर्वतः । येन भक्तोऽभिषिक्तस्तु स्यादों होमयागयोः ॥१॥
[स्नाने द्वैविध्यम् ] स्नानं तु द्विविधं कुर्यान्मलसङ्करशुद्धये । सामान्यविधिना स्नात्वा विशेषविधिना ततः ॥२॥ सामान्यं लौकिकं स्नानं विशिष्टं मनसंस्कृतम् ।
[शौचविधिः] तश्चापि शौचपूर्व स्यात्तदादौ कथयामि ते ॥ ३ ॥ 1 विप्राणां CL.
For Private and Personal Use Only