________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प.८]
मुद्राबन्धाख्यानं
७७
[ यामुनमुद्रा] दक्षिणायामुनस्योक्ता मुद्रा बीजस्य नारद ॥ ८७॥
[ शङ्खमुद्रा] निधीवरस्य शङ्खस्य वामहस्तात्कनिष्ठिका ।
[पअनिधिमुद्रा] पद्माख्यस्यापरादस्तात्सव चोर्वीकृता यदा ॥८॥
[गणेशमुद्रा] दक्षिणेन तु हस्तेन साङ्गुष्ठेन च मुष्टिना । प्रदेशिनी ह्यनामां च वामहस्तस्य पीडयेत् ॥ ८९॥ प्रयत्नकृतशङ्खानां पृष्ठे योज्या च मध्यमा । लम्बमानकराकारा यथा संदृश्यते च सा ॥ ९०॥ मुष्टातिसमीपस्था वामहस्तात्कनिष्ठिकाम् । दक्षिणाङ्गुष्ठबाह्ये च दंष्ट्रावत्परिभावयेत् ॥ ९१ ।। ईपत्तियक्ततस्स्पष्टो वामाङ्गुष्ठस्तथा परः । यथा तौ परिदृश्येते गजकर्णोपमौ द्विज ॥१२॥ गणेश्वरस्य मुद्रेयं सर्वविघ्नक्षयङ्करी ।
1 [वागीश्वरीमुद्रा] मुश्लिष्टौ मणिबन्धौ तु कृत्वा पाणिद्वये पुरा ॥ ९३ ॥ संलग्नमग्रदेशात्तु प्रोन्नतं मध्यमायुतम् । प्रदेशिनीद्वयं तद्वत्कृत्वाऽनामायुगं तथा ॥९४ ॥ अचलं द्विगुणीकृत्य नमयेत्तदधोमुखम् । शनैः शनैःस्पृशेधावत्स्वं स्वं पाणितलं द्विज ॥ ९५ ॥ स्पष्टं मुविरलं कुर्यादङ्गुष्ठद्वितयं द्विज । तद्वत्कनीयसीयुग्मं समेन धरणेन तु ॥ ९६ ॥ मुद्रेषा वाग्विभूत्यर्थी यो बनाति दिने दिने । जपमानस्तु तद्भावी तस्य चावतरेत्तु धीः ॥ ९७ ॥
[गुरुमुद्रा ] सम्मुखौ संपुटीकृत्य द्वौ हस्तौ संप्रसारितौ । विनियोज्यौ ललाटोचे शिरसाऽवनतेन तु ॥ ९८॥
For Private and Personal Use Only