________________
Shri Mahavir Jain Aradhana Kendra
प. ८ ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुद्राबन्धाख्यानं
अनन्तासनमुद्रेयमनेनास्या (ख्या ? ) यते द्विज । सर्व जगदिदं षा कोडीकृत्य च वर्तते ॥ ६३ ॥ सर्वास्वाधार मुद्रास प्राधान्येन व्यवस्थिता । तस्यादौ मन्त्रमुच्चार्य प्लुतं च बहुमातृकम् ॥ ६४ ॥ शब्दशक्यविभागोत्थं भावग्राह्यमनाहतम् । 'ततस्तस्य विसर्गे तु अनन्तासनसंज्ञया ॥ ६५ ॥ बद्धं प्रकल्पयेद्विम सद्भावध्यानसंयुतम् । सदाधिकारयागे तु मन्त्राणां भिन्नरूपिणाम् ॥ ६६ ॥ क्षिप्रकर्मप्रसिध्यर्थं योजनीया प्रयत्नतः । [ पृथिवीमुद्रा ]
करद्वयेन बनीयालग्न मुष्टिद्वयं पुरा ॥ ६७ ॥ अङ्गुलित्रतयेनैव अङ्गुष्ठे तर्जनीद्वयम् । प्रान्तलग्नं ततः कृत्वा तद्युगे मेलयेत्पुनः ॥ ६८ ॥ एषा तु पार्थिवी मुद्रा सामुद्रीमधुना शृणु । • समुद्रमुद्रा ]
मणिबद्धौ च संलग्नौ नखाग्राणि करद्वयात् ॥ ६९ ॥ कार्याणि साकीकानि परस्परमुखानि तु । अङ्गुष्ठाग्रे निराधारे तन्मध्ये चालयेद्धृतम् ॥ ७० ॥ मध्यं कुर्याच हस्ताभ्यां गाधं तु सुषिरोपमम् । क्षीरार्णवस्य मुद्रैषा प्रागुक्ता पङ्कजस्य तु ॥ ७१ ॥ मन्त्रयोगात्तथा ध्यानादन्यत्वं चैव जायते । [ धर्मादिमुद्राचतुष्टयम् ]
करद्वयम संलग्ने (ग्नं?) कृत्वा तदनु योजयेत् ॥ ७२ ॥ मुखे मुखं तर्जनीभ्यां तं मुञ्चेदथ मध्ययोः । कुर्यात्तादृग्विधं बन्धं तं त्यक्त्वाऽनामिकाद्वये ॥ ७३ ॥ उपसंहृत्य तं चापि द्वे कनिष्ठे नियोजयेत् । प्रत्येकबन्धे संलग्नमङ्गुष्ठयुगलं न्यसेत् ॥ ७४ ॥ धर्माद्यस्य चतुष्कस्य विद्धि मुद्रागणं क्रमात् ॥ ७५ ॥ तदूर्ध्वस्थस्य पद्मस्य प्रागुक्ता मन्त्रयोगतः ।
I तस्मादस्य A.
For Private and Personal Use Only
७५