________________
Shri Mahavir Jain Aradhana Kendra
७४
www.kobatirth.org
जयाख्यसंहिता
[ सत्यादिमुद्रापञ्चकम् ] दक्षिणस्य तु हस्तस्य अग्रतोऽङ्गुलिपञ्चकम् । परस्परं स्पृशेत्कार्य प्रोन्नतं मुखसम्मुखम् ॥ ५१ ॥ सत्यस्यैषा भवेन्मुद्रा प्रागुपाङ्गोद्भवस्य च । अङ्गुष्ठतर्जनीयोगाद्वितीयस्य प्रकीर्तिता ॥ ५२ ॥ अष्ठमध्यमायोगात्तृतीयस्य प्रकीर्तिता । अङ्गुष्ठानामिकायोगाच्चतुर्थस्य तु नारद ॥ ५३ ॥ कनिष्ठाङ्गुष्ठसंयोगात्पञ्चमस्य तु जायते ।
Acharya Shri Kailassagarsuri Gyanmandir
[ महाजयामुद्रा ]
हृनं वामहस्तं तु कृत्वोत्तानं प्रसारितम् । पृष्ठे तु मुष्टिबन्धं तु दक्षिणेन करेण तु ॥ ५४ ॥ मुष्टेरूर्ध्व स्थितोऽएं चक्षुर्थ्यामवलोकितम् । दैवी ह्येषा भवेन्मुद्रा मन्त्रराजस्य सुव्रत ।। ५५ ।। महाजयेति विख्याता सर्वयोगप्रसाधनी । सर्वसिद्धिकरी शश्वत्सर्वमुद्रामपूरणी ।। ५६ ।। अनया मुद्रितं विश्वमाब्रह्मभवनान्ति॑िमम् । सर्वाङ्गशक्तियुक्तस्य सर्वमन्त्रालयस्य च ।। ५७ ॥ निष्कळ स्याविकारस्य ब्रह्मन्सप्ताक्षरस्य च । इत्येष गर्भमन्त्राणामुक्तो मुद्रागणो मया ॥ ५८ ॥ आधारासन मन्त्राणां मुद्राणां लक्षणं श्रुणु । [ आधारशक्तिमुद्रा कूर्ममुद्रा च ]
क्षिप्तमङ्गुलियुग्मं तु मुष्टिभ्यामन्तरे द्विज ॥ ५९ ॥ वामस्य दक्षिणो मुष्टिः पृष्ठे स्यात्स्पर्शवर्जितः । असावाधारशक्तौ च ऊर्ध्वतः कूर्मवह्नि (द्वि )ज ॥ ६० ॥ [ अनन्तासनमुद्रा ] अधोमुखस्य वामस्य अनामा तर्जनी उभे ।
आकुंच्य पृष्ठलने तु मध्यमायां तु संस्थिते ॥ ६१ ॥ तयोरधस्तान्मध्याख्यामृज्वीं कुर्यादधोमुखाम् । कनिष्ठिका तु साङ्गुष्ठा कार्या सुप्रसृता सुने ॥ ६२ ॥
IA.
For Private and Personal Use Only
[ प. ८