________________
Shri Mahavir Jain Aradhana Kendra
७२
www.kobatirth.org
जयाख्यसंहिता
[ कपिलमुद्रा ] तर्जन्यङ्गुष्ठयोर्मध्ये मध्यमां तु प्रपीडयेत् ॥ २६ ॥ प्रसारयेदनामां च पश्चात्तस्याः कनिष्ठिकाम् । परस्परं च दूरस्थे मुद्रैषा कपिली स्मृता ॥ २७ ॥ सर्वसिद्धिकरी शेषा अणिमादिषु साधनी । [ क्रोडमुद्रा ]
Acharya Shri Kailassagarsuri Gyanmandir
अधोमुखे वामहस्ते मध्यमानामिके यद्वा ॥ २८ ॥ अङ्गुष्ठस्य तु संसक्ते कनिष्ठा तर्जनीद्वयम् । प्रसारितं ततः कार्य मुद्रा क्रोडात्मिका स्मृता ॥ २९ ॥ सर्वयन्त्रप्रमथनी सर्वदुष्टनिवारिणी ।
मA.
स्वे स्वे स्थाने नियोक्तव्या मुद्रावक्त्रेषु या स्थिता ॥ ३० ॥ [ कौस्तुभमुद्रा ] मध्यमानामिकान्यूना मुष्टिवत्पाणिमध्यगाः । उभयोर्हस्तयोर्वित्र पश्चान्मुष्टिद्धयं तु तत् ॥ ३१ ॥ श्लेषयेत्समरन्ध्रेण तर्जन्यौ द्वे प्रसार्य च । ततः संश्लेषयेदग्रादङ्गुष्ठाग्रे नियोजयेत् ॥ ३२ ॥ मध्यर्तस्तर्जनीभ्यां तु अन्योन्येन क्रमेण तु । सुद्वैषा कौस्तुभस्योक्ता मालामुद्रामथो श्रृणु ॥ ३३ ॥ [ मालामुद्रा ]
शाखाष्टकं कराभ्यां यद्भस्तमग्रानदूरतः । संश्लक्ष्णं लम्बमानं च उपविष्टोऽथ वास्थितः ॥ ३४ ॥ कुर्याद्वाहुद्वयं विप्र ऊरुमध्यावलम्बितम् । मणिबन्धावधौ सम्यमालासुद्रा प्रकीर्तिता ।। ३५ ।। [ पद्ममुद्रा ]
अङ्गुष्ठौ सङ्गतौ लग्नौ अङ्गुल्यो विरलाः स्थिताः । पाद्मी ह्येषा भवेन्मुद्रा पुष्टिसौभाग्यदायिका ॥ ३६ ॥ [ शङ्खमुद्रा ] मुष्टिना ग्राहयेद्वाममङ्गवं दक्षिणेन तु । अङ्गुलीर्वामहस्तात्तु दक्षिणस्योपरि न्यसेत् ॥ ३७ ॥
For Private and Personal Use Only
[ १.८