________________
Shri Mahavir Jain Aradhana Kendra
१८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
मन आवाहने विष योक्तव्यस्तु परं शृणु । [ पाद्याद्येषूपचारेषु विनियोज्यो मन्त्रः ] औपचारिकहृत्संज्ञं क्रियते येन पूजनम् ॥ १०१ ॥ प्रणवान्ते त्रिधा' योज्य प्राणं' व्योमविभूषितम् । इदमिदमिदं पश्चात्पदं दद्यात्षडक्षरम् ॥ १०२ ॥ गृहाण च ततः स्वाहा मन्त्रः पञ्चदशाक्षरः । योग्य सर्वोपचारेषु पाद्याद्येषु सदैव हि ॥ १०३ ॥
[ न्यूनाधिक परिहाराय विनियोज्या विष्णुगायत्री ] प्रणवं विश्वरूपाय विद्महे विन्यसेत्ततः । विश्वातीताय तदनु धीमहे तदनन्तरम् ॥ १०४ ॥ पदद्वयान्ते तदनु तत्रो विष्णुः प्रचोदयात् । सर्वेषां कर्मणामन्ते पूरणार्थ प्रयोजयेत् ॥ १०५ ॥ न्यूनाधिकनिमित्तार्थं गायत्री वैष्णवी परा । चतुर्विंशाक्षरो ह्येष नमः प्रणवसंयुतः ॥ १०६ ॥ [ प्रसादने विनियोज्यो मन्त्रः ] उद्धरेत्प्रणवं पूर्व विष्णुं व्योमान्वितं ततः । ह्रींकारं च ततो दद्याद्भूयो विष्णुं तथाविधम् ॥ १०७ ॥ ततो व्योमान्वितं प्राणं सोमं तदनु केवलम् । परवर्णद्वयं दद्यात्परमेशपदं ततः ।। १०८ ।। प्रसीद ओं नमस्यान्तो मन्त्रो ह्यष्टादशाक्षरः । मन्त्रप्रसादने योज्यो मुद्राबन्धावसानतः ॥ १०९ ॥ [ विसर्जने विनियोक्तव्यो मन्त्रः ] ओं भगवन्मन्त्रमूर्त्ते दद्यादष्टाक्षरं पदम् । तदन्ते वरुणारूढममृताख्यं नियोज्य च ॥ ११० ॥ पदमासादयपदं ततो दद्यात् षडक्षरम् । क्षमस्व त्र्यक्षरं भूयः प्रणवान्तं च विन्यसेत् ॥ १११ ॥ नमोनमः पदं दद्यात्पडिशार्ण तु मन्त्रराट् । विसर्जने नियोक्तव्यो मन्त्रग्रामस्य सर्वदा ॥ ११२ ॥ 'इप्तिसंज्ञं तु यद्वर्ण वराहोपरि संस्थितम् । व्योमेश विष्णुना युक्तं नमः प्रणवमध्यगम् ॥ ११३ ॥ 1 क्रिया A.
2 C. L.
3 तृ A
For Private and Personal Use Only
[ प. ७