________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प.७]
उपकरणमन्त्रोद्धारः
श्रियश्चण्डप्रचण्डाभ्यां जयस्य विजयस्य च । गङ्गायमुनयोर्विप्र सनिध्योः शङ्खपद्मयोः ॥ ३४॥
[श्यादीनां पद्मनिष्यन्तानां ध्यानम् ] पद्मकुम्भकरां लक्ष्मी पद्योपरिगतां स्मरेत् । चण्डाधा विजयान्ताश्च सर्वे ज्ञेयाश्चतुर्भुजाः ॥ ३५॥ गदाचक्रधराश्चैव शङ्खहस्ता महाबलाः। तर्जयन्तो ह्यभक्तानां दोषाणां ध्वंसनोचताः ॥ ३६॥ तोयाधारं वहन्त्यौ ते कलशं वारिपूरितम् । नवयौवनलावण्यस्त्रीरूपं च नदीद्वयम् ॥ ३७॥ निधिपौ शङ्खपद्मौ च निधिभाण्डोपरि स्थितौ । स्थूलदन्तौ च पिङ्गाक्षौ द्विभुजौ भगवन्मयौ ॥ ३८ ॥
[गणेशादिपित्रन्तानां मन्त्राः ] पित्रन्तं च गणेशाधमथ मत्रगणं शृणु ।
[गणेशमन्त्रः]
गदाधरं समुद्धत्य प्रज्ञाधारेण भेदयेत् ॥ ३९ ॥ अंकारयोजितं मूर्तीि गणाधिपतये पदम् । नमस्कारान्वितं पूर्व प्रणवश्चास्य योजयेत् ॥४०॥ नवाक्षरो ह्ययं मनो विनेशस्य च वाचकः। एष एव गदध्वंसी पोढा कार्योऽथ भेदयेत् ॥ ४१ ॥ आदिदेवादिषट् दीविराट् ज्वालोज्झितैः क्रमात् । पश्चानां मस्तके व्यापी जात्यैकैकं स्वयं न्यसेत् ॥ ४२ ।। नमः स्वाहा ततो वौषट् हुं वौषट् फट् समन्विताः । जातयः षद् समाख्याता हृदादीनां क्रमेण तु ॥४३॥
[गणेशध्यानम् ] ध्यायेच्चम्पकवर्णाभं बद्धपद्मासनं द्विज । कर्णिकायां त्रिपोऽब्जे रक्ते पदकेसरे शुभे ॥४४॥ वरदाभयहस्तश्च (स्तं च?) दक्षिणे साक्षसूत्रकम् । विश्रान्तं चिन्तयेद्वामं चतुर्थ परशूपरि ॥ ४५ ॥ वरदाभयहस्ताभ्यां मत्स्यमुद्राद्वयं स्मरेत् । तर्जन्यकुष्ठसङ्घद्याज्जायते यदयत्नतः ॥ ४६ ॥
For Private and Personal Use Only