________________
Shri Mahavir Jain Aradhana Kendra
५४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[ चकमन्त्रः ]
शाश्वतः प्रणवान्ते तु रारूडस्सिद्धिकृद्युतः । तादृशश्चापि कमल: प्रफुल्लनयनस्ततः ।। १६७ ॥ केवलस्स्यात्तदन्ते तु ह्लादस्स्वरविवर्जितः । परमात्मानमुद्धृत्य अङ्कुशाद्येन संयुतम् ॥ १६८ ॥ और्वान्तेनाङ्कितं मूर्ध्ना तदन्ते योजयेनमः फट्कार त्रितयं पश्चाद्विष्णुचक्राय वै पदम् ।। १६९ ॥ स्वाहार्णद्वितयं चान्ते चाक्रं सप्तदशाक्षरम् । अर्धाक्षरचतुष्केन युक्तं सर्वमिदं जगत् ॥ १७० ॥ [ गदामन्त्रः ]
उद्धरेत्प्रणवं त्वादौ तदन्ते च गदाधरम् । प्रधानोपरिसंस्थं च तदधः पुरुषेश्वरम् ।। १७१ । जगद्योनियुतं मूर्ध्ना व्योमेशमुपरि न्यसेत् । ततो जकारमादाय विष्टरोपरि संस्थितम् ॥ १७२ ॥ विसर्गाद्येन संभि नमस्कारविभूषितम् । सहस्राश्रिगदे स्वाहा गदाख्यस्त्रिदशाक्षरः || १७३ ॥ अभीष्टदो महामन्त्री विजालक्षयंकरः ।
[ गरुडमन्त्रः ]
प्रणवं पूर्वमादाय अनन्तेशमतः परम् || १७४ ॥ ऊर्ध्वाऽघोनलसंभिन्नं सत्याद्यं तदधो न्यसेत् । त्र्यैलोक्यैश्वर्यदादानत्रैलोक्यैश्वर्यदेन च ।। १७५ ।। शिरसा भूषितं कुर्याद्वेदात्मानमथोद्धरेत् । सोऽप्यनन्तेशवत्कार्यस्स्वरव्यञ्जनभूषितः ॥ १७६ ॥ सृष्टिकृत्सहितं भूयः कूटं दयानमोन्तगम् । पदञ्चान्तेऽनन्तगते स्वाहान्तं गरुडाय च ।। १७७ ॥ सप्तदशाक्षरो मन्त्रः कीर्त्तितो गरुडस्य च । यस्य संस्मरणात्सम्यक्समस्तापल्लयं व्रजेत् ॥ १७८ ॥
सृष्टि CL.
2 fi A.
For Private and Personal Use Only
[ प. ६.