________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाझ्यसंहिता
[प.१
पञ्चबिन्दुयुतं मूर्ध्नि व्योमेशेन नियोजितम् ॥ ६२॥ इदं बीजवरं दिव्यं सर्वकामफलप्रदम् । अनन्तशात्तृतीयं तु स्वरवर्गान्तयोजितम् ॥ ६३ ॥ द्वितीयं तस्य तद्बीजं जरामृत्युभयापहम् । स्वराधं पञ्चमं चैव पञ्चविंशेन योजितम् ॥ ६४॥ तयोराचं लिखेरीज भोगमोक्षपदं शुभम् । नमस्कारपदोपेतं सर्वशक्त्याश्रयं प्रभुम् ॥६५॥ एतद्वर्णत्रयं देहः स्थूलभासो मम द्विज । भूतदेहव्यपेक्षायां किञ्चित्सूक्ष्मश्च नारद ॥ ६६ ॥ परमूर्त्यन्तरेणैव स्थूल एव विभाति च । अत्युत्कृष्टगुणैयुक्तो घदृश्यो यस्य कस्यचित् ॥ ६७॥ अपि चेत्केवलस्सर्वामर्थसिद्धिं प्रयच्छति । किं पुनर्मूर्तिमन्त्रेण द्वादशार्णेन संयुतः ॥ ६८ ॥ पदं नारायणायेति कुर्याद्विश्वात्मने ततः। ही स्वाहाकारसंयुक्तो मूर्तिमन्त्रो ह्ययं स्मृतः ॥ ६९ ॥
[मन्त्रमहिमानुवर्णनम् ] सङ्कल्पाकल्परूपस्तु व्यर्णस्यायोदितस्य च । आणिमादिगुणाधारः पातालोत्थानसिद्धिदः॥७॥ मोक्षदो मोक्षकामस्य भोगकामस्य भोगदः । राज्यदो राज्यकामस्य धनकामस्य भूतिदः ।।७१॥ यान्यान्मार्थयते कामान्सर्वान्वै साधकाय च । द(दा)त्युच्चारमात्रेण सम्यक्तद्भावितात्मने ॥ ७२ ॥
[देवताभ्यानम् ] अनादिनिधनं देवं जगत्स्रष्टारमीश्वरम् । ध्यायेच्चतुर्भुजं विप्र शङ्खचक्रगदाधरम् ।। ७३ ॥ चतुर्वक्त्रं सुनयनं सुकान्तं पद्मपाणिनम् । वैकुण्ठं नरसिमास्यं वाराहं कपिलाननम् ॥ ७४॥ शुक्लं खगेश्वरारूढं सर्वाभरणभूषितम् । सर्वलक्षणसंपन्नं माल्याम्बरधरं विभुम् ।। ७५ ॥ I भेद A
For Private and Personal Use Only