________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प.
]
४३
मुख्यमन्त्रोद्धारः [ मातृकायाः स्वविग्रहे न्यासक्रमः ] सूत्रेण मणयो यद्वत्मोतास्त्वेकेन नारद ॥ २२ ॥ तद्वद्वर्णा मया तन्तुस्वरूपेणाव्ययात्मना। इति चेतसि वै कृत्वा मन्त्रानुद्धरते च यः ॥ २३ ॥ दृष्टादृष्टफलमाप्तिस्तस्य मन्त्रात्मजायते । एवं स्वविग्रहे न्यस्य मातृकां मन्त्रमात्रकाम् ।। २४ ॥ वस्तुपूर्णेषु तत्त्वेषु स्वेषु स्वेषूदितेषु च । स्नात्वा शुक्लाम्बरधरस्स्रक्चन्दनविभूषितः ॥२५॥
[ मन्त्रमातृकोद्धारक्रमः ] तामेव प्रस्तरेन्मन्त्री अष्टवर्गा पृथक्स्थिताम् । अष्टारे तु महाचक्रे मध्यतः सुविभूषिते ॥ २६ ॥ पागरादि क्षकारान्तमवर्गादिक्रमेण तु । मध्यतः प्रणवं लिख्य वर्णचक्रं प्रभु परम् ॥ २७ ॥ एकैकं तु स्वसंज्ञाभिश्चक्रारेष्वक्षरं लिखेत् । यावन्निष्पद्यते वर्गस्स्थितः स्वैस्स्वैररान्तरे ॥ २८ ॥ स्वख्यञ्जनसंयुक्तां मातृकामग्रतो यजेत् ।
[मातृकापूजनप्रकारः] पाद्यार्घ्यपुष्पधृपेन दीपेन च विलेपनैः ॥ २९ ॥ फलमूलादिनैवेद्यैरोंनमोमन्त्रमातृके । संपूज्यश्च ततो भक्त्या मातृकाविग्रहः पुमान् ॥ ३० ॥ पागुक्तेन स्वनाम्ना वै प्रणत्या प्रणवेन च । स्वाभिधाभिः क्रमेणातो ह्येकैकं चाक्षरं यजेत् ॥ ३१ ॥ मध्याह्नभास्काराकारं प्रस्फुरन्तं विचिन्त्य च ।
[भगवद्रूपाणामक्षराणामकारादिक्रमेणाभिधाभेदः ] अकारश्चाप्रमेयश्च प्रथमो ( भवो ?) व्यापकः स्मृतः ॥ ३२ ॥ आदिदेवस्तथाऽऽकार आनन्दो गोपनः स्मृतः। रामसंज्ञ इकारश्च इष्ट इद्धः प्रकीर्तितः ॥ ३३ ॥ ईकारः पञ्च बिन्दुवै 'विष्णोर्माया द्विजाधिप । उकारो भुवनाख्यश्च उद्दाम उदयस्तथा ॥ ३४ ॥
I यत् CL. 2 विष्णु CL.
For Private and Personal Use Only