________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२
जयाल्यसंहिता
[प.६ मुसमं मातृकापीठं कृत्वा प्रस्तार्य तामपि । _ [अक्षरेषु विभाव्यो भगवतः स्थितिमेदः] एकैव भिन्नवर्गा च वर्गान्तेऽप्यसमाक्षराः ॥९॥ षोडशाक्षर आवस्तु अकारायो द्विजोत्तम । विसर्गान्तस्थितस्तस्मिन्नग्नीषोमात्मकः प्रभुः ॥१०॥ पश्चार्णानां तु पश्चानां वर्गाणां परमेश्वरः । सुस्थितः कादिमान्तानां तत्त्वात्मत्वेन सवेदा ॥११॥ जाग्रदादिक्रमेणैव स्थितोऽवस्थात्मनात्र वै। यादिवान्ते चतुर्वणे वर्गे विप्रेन्द्र सत्तमे ॥ १२ ॥ तुर्यातीतात्मरूपेण शादिक्षान्तेषु संस्थितः । आलोकस्तीक्ष्णता व्याप्तिर्ग्रहणं क्षेपणेरणे ॥ १३ ॥ पाकः प्राप्तिरिति ह्यष्टौ सूर्यभागे व्यवस्थिताः। अकारादिषु ह्रस्वेषु वर्णेष्वेतेष्वनुक्रमात् ॥ १४ ॥ द्रवता शैत्यभावाश्च तृप्तिःकान्तिः प्रसन्नता । रसताऽऽलाद आनन्दो ह्यष्टौ चान्द्रास्त्विमा मताः॥ १५॥ आकारादिषु दीर्धेषु संस्थिता मातृकात्मना । अविनाभावरूपेण अन्योन्येन सदैव हि ॥ १६ ॥ अष्टानामपि चाष्टा तु संस्थिता बहिरन्तरे । क्ष्मादितत्त्वसमूहस्तु पुरुषान्तः क्रमेण तु ॥ १७ ॥ जाग्रत्स्वप्नसुषुप्तं च तुर्यमूर्ध्वत्र वर्तते । संस्थितः परमालोकशब्दो नित्योदितः परः॥१८॥ परानन्दश्च समता वेद्यवेदकवर्जितः।
स्वरूपमेतत्कथितं तुर्यातीतात्मनो विभोः ॥ १९ ॥ [एवं भगवतः स्थितिं विभाव्योल्लिख्यमानानामक्षराणं भगवन्मातृकादेहरूपता]
इति वर्णप्रभावं च व्यापकं चानुभूतिगम् । बुध्वा च लिपिरूपेण संलिखेद्येन केनचित् ॥ २० ॥ संवेद्योऽपि जनेनैव न लिपिविष मातृकाः। परमः पुरुषो दिव्यो योऽनुभूतः पुरा त्वया ॥ २१॥ तस्यायं मातृकादेहः चतुर्धा संव्यवस्थितः ।
1 सं.Y 2 सप्त. Y
For Private and Personal Use Only