________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०
जयाख्यसंहिता
[प.४
धर्मसंस्थापनं चैव पुनरेव त्वया कृतम् । संहृताश्च त्वया दैत्याः श्रुतं च विदितं मया ॥ २८॥ यथा येन प्रकारेण त्वमेव प्रकरोषि च ।।
तद्वै वेदितुमिच्छामि त्वत्सकाशात्सुविस्तरम् ॥ २९ ॥ [ सकलनिष्कलात्मना द्विधा भिन्नाया मन्त्ररूपाया मूर्तेर्बन्धतद्विपर्ययहेतुत्वोपपादनम् ]
श्रीभगवान्योगवीर्येण विन्द मन्त्ररूपा पुरातनी । निष्कळा सकळा चैव भोगमोक्षपदा शुभा ।। ३०॥ कृता मया च लोकानां सम्यगालोकदा शुभा। मन्त्रोत्पत्तिक्रमेणैव स्थिता शान्ततरात्मना ॥ ३१ ॥ तमोमयाभ्यां मूर्ताभ्यां दोषाभ्यां नाशनाय वै । सैवावतिष्ठते लोके प्रकृतिर्विश्वपालिनी ॥ ३२ ॥ या करोत्येवमादीनि कर्माण्यस्मिन्भवोदरे । भक्तानां मोक्षयत्याशु कृत्वा बन्धपरिक्षयम् ॥ ३३ ॥
नारदःनिश्शेषेण च तद्योगं तन्मन्त्रं वीर्यमेव च । आदिशस्व जगत्कर्तु(त)यदि सानुग्रहोऽसि मे ॥ ३४ ।। [ मन्त्रतद्वीर्यादिपरिज्ञानस्य ब्रह्मज्ञानमूलत्वकथनम् ]
श्रीमगवान्ब्रह्मपूर्वमिदं सर्वं यत्त्वया चोदितो यहम् ॥ ३५ ॥ तद्विना न प्रवर्तन्ते यानि सङ्कीर्तितानि ते।
नारदःकिं तद्ब्रह्म विजानीयां येन योगेश्वरेश्वर ॥ ३६ ।। विभवो मन्त्रपूर्वश्च मन्त्रोपकरणं तथा । प्रवर्तन्ते विभो क्षिप्रं भक्तानां भक्तवत्सल ॥ ३७॥
श्रीभगवान्ज्ञानेन तदभिन्नेन परिज्ञातेन नारद । जायते ब्रह्मसंसक्तिस्तस्माज्ज्ञानं समभ्यसेत् ॥ ३८ ॥
नारदःब्रह्मसिद्धिमदं ज्ञानं ब्रूहि तल्लक्षणं प्रभो । यज्ञात्वा न भवेजन्म मरणं भवबन्धनम् ॥ ३९ ॥
For Private and Personal Use Only