________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता रात्रौ तु यालवाहेन देवस्योत्सवमाचरत् ।। १४९ ॥ षष्ठे मातः कल्पतरों वेणुगानोत्सवोऽभवत् । रात्री गजेन्द्रमास्थाय दिव्यं रूपमदर्शयत् ॥ १५० ॥ सप्तमे स्यन्दनं दिव्यमास्थाप्योत्सवमाचरत् ।। अष्टमे तु जलद्रोणीमवगाह्य दिवा हरिः ॥ १५१ ॥ रात्रौ तुरङ्गमास्थाय सर्वाल्लोकानपावयत । नवमे शिबिकायात्रामारचय्य रमापतिः ।। १५२ ।। लीलां प्रणयकोपस्य पदय कमलाभुवोः । अनन्तसरसीवाऽवभृथं महमास्थितः ।। १५३ ॥ रात्रौ तु पुण्यकोव्याख्ये विमाने निष्ठितः प्रभुः। सर्व पुरं परिभ्रम्य सर्वाल्लोकानपावयत् ॥ १५४ ॥ दशमेऽहनि मध्याह्ने पुष्पयागमहोऽभवत् । रात्रौ महाविमानेन पुरयात्रा प्रकल्पिता ॥ १५५ ॥ सर्वावरणनिष्कामात्परं विहगराध्वजम् । अवरोपय्य विधिवत्पूजको बहुमानितः ॥ १५६ ॥ एवं संरम्भयोगेन महोत्सवमकारयत् । प्रतिवत्सरमेवैवं महोत्सवविषिः कृतः ॥ १५७ ॥ पक्षमासायनान्दाधा उत्सवाश्चाभवन्क्रमात् । महर्षी दीक्षितौ तौ द्वाचौपगायनकौशिकौ ॥ १५८ ॥ पर्यायेणैव देवेशमानय॑तुरिहादरात् । तदेतन्महितं धाम हस्तिशैलपयां गतम् ॥ १५९ ॥ प्रणतार्तिहरो देवो वरदो यत्र पूज्यते । पूजकास्तस्य तद्वश्या महात्मानो गुणोज्वलाः ॥१६०॥ पाश्चरात्रिकमुख्येभ्यः सर्वेभ्योऽप्यधिका भुवि । एवमेतत्समाख्यातं हस्तिशैलस्य वैभवम् ।। १६१ ॥ देवस्य तत्रसारस्य पूजकस्य तु संग्रहात् । यथा वै नारदमुनेः मुखात्पूर्व श्रुतं मया ॥ १६२ ॥ तथैव सर्वमाख्यातं प्रसङ्गात्मीतिपूर्वकम् ।। अथ प्रकृतमेवाघ तन्त्रमारंभ्यते मया ॥ १६३ ॥ श्रूयतामवधानेन श्रद्धाभक्तिमहीयसा) इति श्रीपाञ्चरात्रे जथाल्यसहितायां शास्त्ररम्भप्रयोजनं नाम प्रथमः पटलः ।
For Private and Personal Use Only