________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प. १]
शास्त्रारम्भप्रयोजनम्
करीशः कमलाकान्तः काले कमलसम्भवम् । स्वच्छन्दः संदिशंस्तेन स्वमालयमकारयत् ।। १३४ ॥ अथ देवेन निर्दिष्टे काले कमलसंभवः । जयाख्यतस्त्रमार्गेण प्रतिष्ठाविधिमादिशत् ।। १३५ ॥ दारुणा मूलबेरं तु कर्माच रजतेन वै । ared चैव ताम्रेणाकारयद्विश्वकर्मणा ।। १३६ ॥ तथैव चाथ बल्यच विधिनाऽकारयद्विधिः । औपगायनमाचार्य कौशिकं च तपस्विनम् ॥ १३७ ॥ तत्पुत्रांश्च महाभागान् द्वौ द्वौ देवसुतोपमौ । दीक्षयित्वा यथान्यायं चक्रवारिजमण्डले ॥ १३८ ॥ तैः प्रतिष्ठान्तिकं सर्व कर्षणाद्यमकारयत् । वैशाखे श्रवण तु संकल्प्यावभृथं पुरा ।। १३९ ॥ rasta ध्वजारोहं विधिनाऽकारयद्विधिः । प्रथमेऽहनि देवेशं मण्डपेन विभासिना ॥ १४० ॥ atri: सञ्चारयामास प्रातर्भक्तानुकम्पया । रात्रौ मृगेन्द्रवान देवस्योत्सवमाचरत् ।। १४१ ॥ द्वितीये दिवसे प्रातसवाहनमाचरत् । रात्रौ मार्तण्डबिम्बेन महोत्सवमकारयत् ।। १४२ ॥ तृतीये दिवसे प्रातर्गरुडोत्सवमाचरत् । अवतारात्परं देवस्योत्सवे प्रथमे पुरा ॥ १४३ ॥ देवो रमापतिर्दिव्यं वैनतेयमधिश्रितः । प्रथमं दर्शयामास निजमप्राकृतं वपुः ॥ १४४ ॥ मध्ये गोपुरमुख्यस्य ततो गरुडवाहने । गोपुराग्रिममध्ये तु देवसेवा विशिष्यते ।। १४५ ।। सर्वपापहरी पुण्या मुक्तिमार्ग उदीरितः । रात्रौ हनुमता चैव देवदेवमचारयत् ॥ १४६ ॥ चतुर्थे दिवसे प्रातः शेषासनतले हरिः । परव्योम्नीव भक्तानां स्वं रूपं समदर्शयत् ॥ १४७ ॥ रात्रौ चन्द्रमसं बिम्बमास्थितस्योत्सवोंऽभवत् । मोहिनीरूपमास्थाय प्रातरान्दोलिकां गतः ॥ १४८ ॥ पंचमेऽहनि देवेशो भक्तान्सर्वाननन्दयत् ।
३
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
१७