________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१८
नखमुखमधिकाङ्गः संयुगः पद्मरागो, ___ भगयुगमथ टङ्गोद्योगशृङ्गा निदाघः । क्रकचकवचकूर्चार्धर्चपुच्छोञ्छकच्छाः,
व्रजमुटजनिकुञ्जौ कुञ्जभूर्जाम्बुजाश्च ॥९८॥ ध्वजमलयजकूटाः कालकूटारकूटौ,
कवटकपटखेटाः कर्पटः पिष्टलोष्टौ । नटनिकटकिरीटाः कर्बटः कुक्कुटाटी,
कुटजकुटविटानि त्र्यङ्गटः कोट्टकुष्ठौ ॥९९।। कमठो वारुण्डखण्डषण्डा,
निगडाक्रीडनडप्रकाण्डकाण्डाः । कोदण्डतरण्डमण्डमुण्डा,
दण्डाण्डौ दृढवारबाणबाणाः ॥१०॥ कर्षापणः श्रवणपक्कणकंकणानि,
द्रोणापराह्मचरणानि तृणं सुवर्णम् । स्वर्णवणौ वृषणभूषणदूषणानि,
भाणस्तथा किणरणप्रवणानि चूर्णः ॥१०१॥ तोरणपूर्तनिकेतनिवाताः, पारतमन्तयुतप्रयुतानि । क्ष्वेडितमक्षतदैवतवृत्तैरावतलोहितहस्तशतानि ।।१०२।। व्रतोपवीतौ पलितो वसन्तध्वान्तायुतद्यूतनृतानि पुस्तः । शुद्धान्तबुस्तौ रजतो मुहूर्तद्वियूथयथानि वरूथगूथौ ॥१०३।।
For Private and Personal Use Only