________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१५
पुंस्त्रीलिङ्गश्चतुर्दशेऽके शङ्कुर्निरये च दुर्गतिः । दोमूले कक्ष आकरे गञ्जो भूरुहि बाणपिप्पलौ ।।७५॥ नाभिः प्राण्यङ्गके प्रधिर्नेमौ कचन वलिगुहे कुटः । श्रोण्यौषध्योः कटो भ्रमो मोहे पिण्डो वृन्दगोलयोः ।।७६।। भकनीनिकयोस्तारो, भेऽश्लेषहस्तश्रवणाः । कणः स्फुलिङ्गे लेशे च, वराटो रज्जुशस्त्रयोः ॥७७॥ कुम्भः कलशे तरणिः, समुद्राांशुयष्टिषु । भागधेयो राजदेये, मेरुजम्ब्वां सुदर्शनः ॥७८|| करेणुर्गजहस्तिन्योरल्याख्यापत्यतद्धितः । लाजवस्त्रदशौ भूम्नीहाद्याः प्रत्ययभेदतः ॥७९|| शुण्डिकचर्मप्रसेवको सल्लकमल्लकवृश्चिका अपि । शल्यकधुटिको पिपीलिकश्चुलुकहुडुक्कतुरुष्कतिन्दुकाः ॥८॥
शृङ्गोऽथ लश्चभुजशाटसटाः सपाटः,
कीटः किटस्फटघटा वरटः किलाटः । चोटश्चपेटफटशुण्डगुडाः सशाणाः,
। स्युरिपर्णफणगर्तरथाजमोदाः ॥८१॥ विधकूपकलम्बजित्यवर्धाः, सहचरमुद्रनालिकेरहाराः । बहुकर कृसरौ कुठारशारौ, वल्लरशफरमसूरकीलरालाः ॥८२॥ पटोलः कम्बलो भल्लो, दंशो गण्डूषवेतसौ । लालसो रभसो वर्तिवितस्तिकुटयस्तृटिः ।।८३॥
For Private and Personal Use Only