________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६
वाकोत्तरा नत्तकरल्लकाङ्का, न्युह्वोत्तरा सङ्गतरङ्गरङ्गाः । परागपूगौ सृगमस्तुलुङ्गकुडङ्गकालिङ्गतमङ्गमङ्गाः ॥७॥ वेगसमुद्रावपाङ्गवर्गौ घार्घा मञ्चसपुच्छपिच्छगच्छाः । वाजौजकिलिञ्जपुञ्जमुना अवटः पट्टहठप्रकोष्ठकोष्टाः ॥८॥ अङ्गुष्ठगण्डौ लगुडप्रगण्डकरण्डकूष्माण्डगुडाः शिखण्डः । वरण्डरुण्डौ च पिचण्डनाडीत्रणौ गुणभ्रूणमलक्तकुन्तौ ॥९॥ पोतः पिष्टातः पृषतश्चोत्पातवातावर्थकपी । बुबुदगदमगदो मकरन्दो, जनपदगन्धस्कन्धमगाधः ॥१०॥ अर्धसुदर्शनदेवनमहाभिजनजनाः परिधातनफेनौ । पूपापूपौ सूपकलापौ रेफः शोफः स्तम्बनितम्बौ ॥११॥ शम्बाम्बौ पाञ्चजन्यतिष्यौ पुष्यः सिचयनिकाय्यरात्रवृत्राः । मन्त्रामित्रौ कटप्रपुण्ड्राऽऽराः कल्लोलोल्लौ च खल्लतल्लो ॥१२।।
कण्डोलपोटगलपुद्गलकालबाला
वेला गलो जगलहिंगुलगोलफालाः । स्यादेवलो बहुलतण्डलपत्रपाल
वातूलतालजडुला भृमलो निचोलः ॥१३॥ कामलकुद्दालावयवस्वाः, सुवरौरवयावाः शिवदावौ । माधवपणवादीनवहावध्रुवकोटीशांशाः स्पशवंशौ ॥१४॥ कुशोड्डीशपुरोडाशवृषकुल्मासनिष्कुहाः । अहनिर्वृहकलहाः, पक्षराशिवराश्यृषिः ॥१५॥
For Private and Personal Use Only