________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यविरचितंलिङ्गानुशासनम् ।
-aroo पुंलिङ्गं कटणथपभमयरषसस्वन्तमिमनलौ किश्तिव । ननङौ घघौ दः किर्भावे खोऽकर्तरि च कः स्यात् ॥१॥ हस्तस्तनौष्ठनखदन्तकपोलगुल्फ
केशाध्वुगुच्छदिनसर्तुपतद्ग्रहाणाम् । निर्यासनाकरसकण्ठकुठारकोष्ठ
हैमारिवर्षविषबोलरथाशनीनाम् ॥२॥ श्वेतप्लवात्ममुरजासिकफाभ्रपङ्क
मन्थत्विषां जलधिशेवधिदेहभाजाम् । मानद्रुमादिविषयाशुगशोणमास
धान्याध्वराग्निमरुतां सभिदां तु नाम ॥३॥ बर्होऽच्छदेऽहिर्वप्रे बीहग्न्योर्हायनबर्हिषौ । मस्तुः सक्तौ स्फटिकेऽच्छो, नीलमित्रौ मणीनयोः ॥४।। कोणेऽस्त्रश्चषके कोशस्तलस्तालचपेटयोः । अनातोये घनो भूम्नि, दारप्राणासुवल्वजाः ॥५॥ कान्तश्चन्द्रार्कनामायःपरो यानार्थतो युगः । यश्च स्यादसमाहारे, द्वन्द्वोऽश्ववडवाविति ॥६॥
For Private and Personal Use Only