________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
येन धातुना युक्ताः प्रादयस्तं प्रत्येवोपसर्गसंज्ञाः॥ यत्रोपसर्गवं न सम्भवति तत्रोपसर्गशब्देन प्रादयो लक्ष्यन्ते न तु सम्भवत्युपसर्गत्वे ॥१०९॥ शीलादिप्रत्ययेषु नासरूपोत्सर्गविधिः ॥११०।। त्यादिष्वन्योऽन्यं नासरूपोत्सर्गविधिः ॥११॥ स्त्रीखलना अलो बाधकाः स्त्रियाः खलनौ ॥११२॥ यावत्सम्भवस्तावद्विधिः ॥११३॥ सम्भवे व्यभिचारे च विशेषणमर्थवत् ।।११४।। सर्व वाक्यं सावधारणम् ॥११५॥ परार्थे प्रयुज्यमानः शब्दो वतमन्तरेणापि वदर्थ
गमयति ॥११६॥ द्वौ नौ प्रकृतमर्थ गमयतः ॥११७॥ चकारो यस्मात्परस्तत्सजातीयमेव समुच्चिनोति ॥११८॥ चानुकुष्टं नानुवर्त्तते ।।११९।। चानुकृष्टेन न यथासङ्ख्यम् ।।१२०॥ व्याख्यातो विशेषार्थप्रतिपत्तिः ॥१२१॥ यत्रान्यत्क्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपरः
प्रयुज्यते ॥१२२॥ यदुपाधेर्विभाषा तदुपाधेः प्रतिषेधः ।।१२३॥
For Private and Personal Use Only