________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९२
स्त्रीलिङ्गार्थे लकारो हि उत और्विति वो भवेत् । शः क्रयादिः क्यः शिति प्रोक्तः षः पितोऽविशेषणे ॥ पदत्वार्थे सकारो हि नोक्ता अत्र न सन्ति च । धातुनां प्रत्ययानां चानुबन्धः कथितो मया ॥३०॥
इत्यनुबन्धफलम् । द्युतादेरद्यतन्यां चाङात्मनेपदमिष्यते । वृदादिपञ्चकेऽन्यो वा स्यसनोरात्मनेपदम् ॥१॥ ज्वलादिौँ भवेत्वृद्धि र्यजादेः सम्प्रसारणं । घटादीनां भवेद्हस्वो णौ परेऽजीघटत् सदा ॥२॥ अद्यतन्यां पुषादित्वादङ् परस्मैपदे भवेत् । स्वादित्वाच क्तयोस्तस्य नकारः प्रकटो भवेत् ॥३॥ प्वादिनां गदितो हस्वो ल्वादेस्क्तक्तयोश्च नो भवेत् । युजादयो विकल्पेन ज्ञेयाश्चुरादिके गणे ॥४॥ मुचादेर्नागमोरो च कुटादित्वात् सिचि परे । गुणवृद्धेरभावश्च कथितो हेमसूरिणा ॥५॥ अदन्तानां गुणो वृद्धियचुरादिश्च नो भवेत् । संक्षेपेण फलं चैतदीषितं वानरेण हि ॥६॥
। इति वृत्गणफलम् ।
For Private and Personal Use Only