________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अनुबन्धफलम् ॥ उच्चारणेऽस्त्यवर्णाद्य आस्त्योरिनिषेधने । इकारादात्मनेपदमीकाराच्चोभयं भवेत् ॥१॥ उदितःस्वरान्नोन्तश्चोक्तादाविटो विकल्पनं । रुपान्त्ये डे परे हव ऋकारादविकल्पकः ॥२॥ लकारादङ्समायात्येः सिचि वृद्धिनिषेधकः। ऐस्क्तयोरिनिषेधः स्यादोस्क्तयोस्तस्य नो भवेत् ॥३॥ औकार इविकल्पार्थेऽनुस्वारोऽनिविशेषणे । लूकारश्च विसर्गश्चानुबन्धे भवतो नहि ॥४॥ कोदादिर्न गुणी प्रोक्तः खे पूर्वस्य मुमागमः । गेनोभयपदी प्रोक्तो घश्च चजोः कगौ कृतौ ॥५॥ आत्मने गुणारोधे डनो दिवादिगणो भवेत् ।
औ वृद्धौ वर्तमाने क्तः टः स्वादिष्ठद्युकारकः ॥६॥ त्रिमगर्थोडकारःस्याण णचुरादिश्च वृद्धिकृत् । तस्तुदादौ नकारश्चेचापुंसीति विशेषणे ॥७॥ रुधादौ नागमे पो हि मो दामः सम्प्रदानके। यस्तनादेरकारः स्यात् पुंवद्भावार्थसूचकः ॥८॥
For Private and Personal Use Only