________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(V)
इति वचनेन सिद्ध्यति यत् कल्याणवर्मकृत 'सारावली' प्राचीनार्षग्रन्थाणां सारभागं सङ्ग्रह्यापि च बृहज्जातकयवनादिरचितशास्त्रप्रभृतिका ये पौरुषजातकग्रन्थास्तेषां सारभूतवाक्यानि सङ्कलय्य रचयामास। यथा ग्रन्थेऽस्मिन् ग्रन्थकारः कथयति
"सकलमसारं त्यक्त्वा तेभ्य: सारं समुध्रियते।।" वस्तुतस्तु साम्प्रतिक पौरूषजातक ग्रन्थेसु बृहज्जातकस्य मूलभूता एव कियन्ता: श्लोका दृश्यन्ते। एवमेव बृहज्जातकमिव संहितास्कन्धस्य बृहत्संहिता ग्रन्थस्य, यस्या परनाम 'वाराही संहिता'ऽस्ति, साम्प्रतिके लोकेऽतिमहत्त्वमभिदृश्यत इति।
एवम्प्रकारेण भारतीयज्योतिर्विज्ञानस्यातिविस्तृतं क्षेत्रं दृष्ट्वा तथा ऋग्वेदकालतश्चाद्यावधिं यावद् त्रिस्कन्धात्मकेषु भारतीयज्योतिषसाहित्येषु सम्प्रयुक्तानां व्यवहतानां च विभिद्यात्स्रोतादाऽऽगतानां शब्दानां सम्यज्ज्ञानाय तेषामध्ययनाध्यापनयोस्तेषां प्रायोगिक स्वरूपस्य चापि सरलीकरणाय चैकस्य शब्दकोषस्य दीर्घकालेनापेक्षा वर्तते। तस्याऽऽपूर्त्यर्थमेवायं कोषग्रन्थो भवति सेवायां प्रस्तुतोऽस्ति। ग्रन्थेऽस्मिन् नवदश सर्गाः सन्ति। यथा- 'पञ्चाङ्गसर्गः, कालसर्गः, पर्वसर्ग................' इति। येषां परिज्ञानं ग्रन्थदर्शनेन स्पष्टतया तु सम्भवत्येव, सहैव शब्दकोषस्यान्यान्यानां विशेषताया अपि सम्यग् ज्ञानं भवति। परम विश्वासो मापस्ति यत् सर्वेभ्यः स्तरेभ्यः पाठकेभ्यो ग्रन्थोऽयमवश्यमेव समुपयोगयोग्य: संग्रहणीयश्च भविष्यति। इति।।
तत्र यावदध्ययनाध्यापने काठिन्यञ्चावलोकयद्भिः वाराणसेय ‘चौखम्बा संस्कृत सीरीज' नामकस्य संस्थानस्याध्यक्ष श्रेष्ठिवर महोदयैः मुहुरभ्यर्थितश्चाहमेतद् प्रस्तुतस्य ज्योतिर्विज्ञानशब्दकोषस्य शब्दसङ्कलने लेखनेप्रकाशनकार्ये च प्रवृत्तोऽभवम्। तदस्मिन् पुण्यात्मके जगदुपकृतिकार्ये विश्वनाथानुकम्पया परमाल्पधियाऽपि मया त्वरितमेव निर्बाधं साफल्यमवाप्तमिति गुरुपदानुकम्पैव बीजम्।
यद्यनेन जनानां किञ्चिदपि लाभोऽभविष्यत् तदा मम श्रमं सार्थकं सम्पत्स्यते। प्रमादवशात् यन्त्रादिवशाद् वा या अशुद्धयः सञ्जाता विद्वद्भिः संशोधयित्वा पठनीया: सूचनीयाश्च। एतदर्थमपि सर्वेषां कृतज्ञता ज्ञापयामि।
वाराणसी अनन्त चतुर्दशी-सम्वत् २०६५ कलिसम्वत्-५१०९
विदुषामाश्रवः सुरकान्त झा
For Private and Personal Use Only