________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अपि गर्गवचनाच्च
ज्योतिश्चक्रे तु लोकस्य सर्वस्योक्तं शुभाशुभम्।
ज्योतिर्ज्ञानं तु यो वेद स याति परमाङ्गतिम्।। अपि वाराहमिहिरवचनाच्च
न साम्वत्सरपाठी च नरके परिपच्यते।
ब्रह्मलोक प्रतिष्ठां च लभते दैवचिन्तकः।। अतश्च स्पष्टं यज्ज्यौति:शास्त्रस्य प्रयोजनं न केवलमेवाध्ययनाध्यापनावश्यकताऽपितु परमार्थ बुद्ध्याऽपि। एवं च सकलात्मनो जगत्रियन्तुः सवितुः स्थितिमिति गति प्रतिपादकत्वादिदं शास्त्रं दर्शनशास्त्रमप्यस्ति' इति कथने न काचिद् विशेषोक्तिः। एवश्चास्य ज्योति:शास्त्रस्य प्रमुखाङ्गानि त्रयान्युक्तानि नारदेण च
"सिद्धान्त-संहिता-होरारूपं स्कन्धत्रयात्मकम्' तथा चाह वाराहः
ज्योति:शास्त्रमनेकभेदविषयं स्कन्धत्रयाधिष्ठितं तत्कात्स्न्योपनयस्य नाम मुनिभिः सङ्कीर्त्यते संहिता। स्कन्धेऽस्मिन् गणितेन या ग्रहगतिस्तन्त्राभिधानस्त्वसौ होराऽन्योऽङ्गविनिश्चयश्च कथितः स्कन्धस्तृतीयोऽपरः ।।
तत्र तावत् संहिताभागे स्थल-जल-गगनजातविविधप्राकृतिकलक्षणेन फलादेशकारकग्रन्थास्तेषु संहिताविषयप्रतिपादकग्रन्थेषु केवलं वाराहमिहिरस्यैकस्यैव कृतस्य बृहत्संहिताभिधस्य इदानीं लोके समुपलब्धिः प्रचारश्चास्ति। अन्याः संहितालुप्तप्रायाः सन्ति। सिद्धान्तभागे च सूर्यसिद्धान्त-ब्रह्मस्फुटसिद्धान्त-सिद्धान्तशेखर-सिद्धान्तशिरोमणिसिद्धान्ततत्त्वविवेक-आर्यभटीयमिति सिद्धान्तग्रन्थस्य प्रचारो वर्त्तते। होराभागे त्वपि द्वित्रा एव मूलग्रन्थाः प्रचलिताः तदितरास्तु इदानीन्तनाः सङ्कलिताः समविषयका एव भिन्नभिन्न नाम्ना दृष्टिपथमायान्ति।
प्रायो ज्योति:शास्त्रस्य प्राचीनार्षग्रन्थाः हतभाग्यवशादस्मिन् भारते समागते मुगलसाम्प्रज्ये नियन्त्रिता बहुश: लुप्ता बभूवुः। दैववशात्तत्काले तेषां कुटिलकटाक्षैर्वञ्चिता ये केचन ग्रन्था हतभाग्यानामस्माकं नयनपथमुपयान्ति। ते च यवना अस्माकमार्षग्रन्थानां यथावसरं सारं सङ्कलय्य स्वभाषाबद्धान् ग्रन्थानरचयन्। यद् वाराहमिहिरस्य बृहज्जातकस्य
For Private and Personal Use Only