________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्रहसर्गः
५५ प्रकाशकग्रहनामनी-सूर्यः, चन्द्रश्चेति द्वौ प्रकाशको ग्रहौ स्तः। ताराग्रहनामानि-भौम:, बुधः, बृहस्पति:, शुक्रः, शनिश्चैते पञ्च ताराग्रहाः सन्ति। तमःस्वरूपग्रहनामनी-राहुः, केतुश्चैतौ द्वौ तमः स्वरूपग्रहौ स्तः। शुभग्रहनामानि-अर्द्धबिम्बाधिकेन्दुः, निष्पापबुधः, गुरु:, शुक्रश्चैते शुभग्रहाः सन्ति। अतिशुभग्रहनामानि-बृहस्पति:, शुक्रः, यमक (घ) ण्टकश्चैतेऽतिशुभग्रहा: सन्ति।
पापग्रहनामानि-अर्द्धबिम्बोनेन्दुः, भौम:, रविः, सपापबुधः, शनिः, राहुः, केतुश्चैते पापग्रहाः सन्ति।
क्रूरग्रहनामनी-भौमः, शनिश्चैतौ द्वौ क्रूरग्रहौ स्तः। अतिपापग्रहनामानि-केतुः, गुलिकः, मान्दिः राहुश्चैतेऽतिपापग्रहाः सन्ति। गुलिकपर्यायाः-अतिपापी (इन्), गुलिकः, प्राणहरः।
मान्दिप०-आर्किजः, आर्किपुत्रः, आर्किसूनुः, आर्जनिः, कालसुतः, कृष्णात्मजः, दिनकरसुतपुत्रः, पङ्गुजः, प्रेतपुरीशजः, प्रेतपुरीशसूनुः, भास्वज्जभुः, मन्दजः, मन्दपुत्रः, मन्दसुतः, मन्दोत्थः, मान्दिः, यमात्मजः, शनिसुत: शने:सूनुः, शनेस्तनूजः।
प्राणपर्याया:-असुः, प्राणः, प्राणपदः। ताजिकशास्त्रीयमुन्थाग्रहप०-अन्थिहा, इन्थाः, इन्थहा, मुथा, मुन्था, मुथिहा।
उपग्रहनामानि (१) काल:, (२) परिवेश: (परिधि:), (३) धूमः, (४) अर्द्धयामः, (अर्द्धप्रहर:), (५) यमघण्टक: (यमकण्टक:), (६) इन्द्रधनुः (शक्रचापः), (७) गुलिक: (मान्दिः), (८) व्यतिपातकः (व्यतीपात:), (९) ध्वजः (उपकेतुः) इत्येते नवोपग्रहा: सन्ति। ___ रव्याधेशानां नामानि-रव्यंश: (काल:) भौमांश: (मृत्युः), बुधांश: (अर्द्धप्रहरः), गुर्वश: (यमघण्टक:), शन्यंश: (गुलिको मान्दि), चैते रव्याद्यंशनामानि सन्ति।
नूतनग्रहनामानि-(१) हर्शल: (इन्द्रः), (२) नेप्च्यून: (वरुणः), प्लुटो: (?), चैते नव्यग्रहाः सन्ति।
एकयोक्त्या ग्रहाणां पर्यायाः
रवीन्दोः पर्यायाः-गावौ, ग्रहराजौ, तिमिरारी, दर्शतौ, ध्वान्तारी, पचतौ, पीतू, पुष्पदन्तौ,. पुष्पवन्तौ, भगौ, भासन्तौ, भेनौ, हरी, उष्णहिमकरौ।
चन्द्रगुर्वो:प०-गौरौ, सिन्धुजौ, सिन्धुभवौ।। ज्ञाक्यो:५०-हरिजौ। ज्ञेन्द्रोःप०-बुधौ। रवीज्ययोःप०-गोपती। रव्यारयोःप०-अरुणौ, काश्यपेयौ। तमोऽर्कयोःप०-असुरौ, अही। राहुकेत्वोःप०-अन्दुवैरिणौ, उपखगौ, उपग्रहौ, तमोग्रहौ, रवीन्दुरश्मिहरौ, रवीन्दुविमर्दनौ।
भेन्द्रो:५०-भमौ। ५ ज्यो.वि.शब्दकोष
For Private and Personal Use Only