________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिर्विज्ञानशब्दकोषः राशीनां चरादिभेदाः-(१) चर:, (२) स्थिरः, (३) द्विस्वभावश्चैते राशीनां त्रयोभेदा: स्य:। चरराशिनामानि-मेषः, कर्कः, तुला, मकरः, स्थिरराशिनामानि-वृषः, सिंह:, वृश्चिक;, कुम्भः। द्विस्वभावराशिनामानि-मिथुन:, कन्या, धनुः, मीनः। चरराशिपर्याया-चपलः, चपलोदयः, चरः, चरोदय:, चलः, चलोदय:, तरलः।
स्थिरराशिप०-अगः, अगोदय:, अचपलः, अचपलोदयः, अचर:, अचरोदय:, अचल:, अचलोदय:, अतरल:, स्थास्नुः, स्थिरः। द्विस्वभावराशिप०-द्वन्द्वम्, द्वितनुः, द्विदेहः, द्विप्रकृति:, द्विमूर्तिः, द्विस्वभावः, व्यङ्गम्।
राशीनां मनुष्यादिभेदा:-(१) मनुष्यः, (२) पशुः, (३) कीट:, (४) जलजश्चैते राशीनां मनुष्यादिचत्वारो भेदा: स्युः।। ___ मनुष्यराशिनामानि–मिथुन:, कन्या, तुला, धनुःपूर्वार्द्धम्, कुम्भश्चैते मनुष्यराशयो लग्नस्था:, पूर्वस्यां बलिन:, स्युः।
पशुराशिनामानि-मेषः, वृषः, सिंहः, धनुपरार्द्ध:, मकरपूर्वार्द्धश्चैते पशुराशयः खस्था अवाच्यां बलिन: स्वामिनः स्युः।
जलजराशिनामानि-कर्कः, मकरपरार्द्ध:, मीनश्चैते जलजराशयः, सुखस्थाः कौबेबलिनः स्युः।
कोटराशिनाम-वृश्चिकः, अयमस्ते प्रतीच्यां बली। मनुष्यराशिपर्यायाः-द्विपदः, नरः, मनुजः, मनुष्यः, मर्त्यः, मानवः, मानुषः इति।
चतुष्पदराशिप०-चतुष्पदः, चतुष्पाद् (त्), चतुष्पादः, चतुश्चरणः, चतुरंघ्रिः, चरिः, तुर्यपादः, तिर्यङ् (च्), तूर्यपादः, पशुः।
कीटराशिप०-कीटः।
जलचरराशिप०-अब्जः, अम्बुजः, आप्यः, जलचरः, जलजः, जलराशि:, वारिजोदय:, वारिप्रसूतोदयः।
शीर्षोदयराशिनामानि-मिथुन:, सिंहः, कन्या, तुला, वृश्चिकः, कुम्भश्च। पृष्ठोदयपराशिनामानि-मेषः, वृषः, कर्कः, धनुः, मकरश्च। उभयोदयराशिनाम-मीनः।। दिवाबलिराशिनामानि-मिथुनः, सिंहः, कन्या, तुला, वृश्चिकः, कुम्भः, मीनश्च। निशाबलिराशिनामानि-मेषः, वृषः, कर्कः, धनुः, मकरश्च। पूर्वदिङ्निवासिराशिनामानि-मेषः, सिंहः, धनुश्च। दक्षिणदिनिवासिराशिनामानि-वृष: कन्या, मकरश्च। पश्चिमदिनिवासिराशिनामानि-मिथुन:, तुला, कुम्भश्च। उत्तरदिनिवासिराशिनामानि-कर्कः, वृश्चिकः, मीनश्च।
राशिस्वामिनामानि–(१) कुजः (मङ्गल:), (२) शुक्र: (भृगुः), (३) बुधः (सौम्य:), (४) चन्द्रः (सोमः), (५) रवि: (सूर्यः), (६) बुधः, (७) शुक्र:, (८) मङ्गलः, (९) बृहस्पतिः (गुरुः), (१०) शनिः (मन्दः), (११) शनिः, (१२) बृहस्पतिश्चेत्येते मेषात् क्रमात् द्वादशराशीनां स्वामिनः सन्ति।
For Private and Personal Use Only