________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७२
ज्योतिर्विज्ञानशब्दकोषः लटि-उत्सृजति, उत्सृजतः, उत्सृजन्ति। वि०लि०-उत्सृजेत्, उत्सृजेताम्, उत्सृजेयुः। यथा-'आगताद् द्विगुणमुत्सृजेत्सुधी' इ०वि०वृ०। लटि-विसृजति, विसृजतः, विसृजन्ति। वि०लि०-विसृजेताम्, विसृजेयुः। यथा-सायकं तोयं वाऽग्रिभयं विचिन्त्य विसृजेत्' इति वि०मा०। ' 'वृजी' वर्जने (वर्जन करना, मना करना, रोकना)। (भ्वादौ) परस्मैपदे-(स०)। लटि-वर्जति, वर्जतः, वर्जन्ति। वि०लि०-वजेत्, वर्जेताम्, वर्जेयुः। (चुरादौ) परसमैपदे-(स०)। लटि-वर्जयति, वर्जयत:, वर्जयन्ति। वि०लि०-वर्जयेत्, वर्जयेताम्, वर्जयेयुः। यथा-'वर्जयेत्सर्वकार्येषु हस्तार्कम्' इति मु०चिं०। परि + वृजी अथवा-वि + वृजी अर्थात् (वर्जन करना) चुरादौ-परस्मैपदे
लटि-परिवर्जयति, परिवर्जयतः, परिवर्जयन्ति। वि०लि०-परिवर्जयेत्, परिवर्जयेताम, परिवर्जयेयुः।
लटि-विवर्जयति, विवर्जयत:, विवर्जयन्ति। वि०लि० विवर्जयेत्, विवर्जयेताम्, विवर्जयेयुः। यथा-'गुरौ पुष्यं विवर्जयेत्' इति मु०चि०।
'गुण' आमंत्रणे केतने च (आमंत्रण करना, बुलाना, गणित में गुणन करना)। (चुरादौ) परस्मैपदे-(स०)
लटि-गुणयति, गुणयत:, गुण्यन्ति। वि०लि०-गुणयेत्, गुणयेताम्, गुणयेयुः। भावे ‘गुण्यते।' 'सम + गुण' अङ्कपूरणे (गुणना) परस्मैपदे
लटि-संगुणयति, संगुणयत: संगुणयन्ति। वि०लि०-संगुणयेत्, संगुणयेताम्, संगुणयेयुः। 'तड' आघाते = हनने (अङ्क गुणना)। चुरादौ-'णिजि' परस्मैपदे-(स०)। लटि-ताडयति, ताडयतः, ताडयन्ति। वि०लि०-ताडयेत्, ताडयेताम्, ताडयेयुः। परि + तड अथवा-सम + तड अर्थात् हनने, अङ्कपूरणे (गुणना)। परस्मैपदे
लटि-परिताडयति; परिताडयतः, परिताडयन्ति। वि०लि०-परिताडयेत् परिताडयेताम्, परिताडयेयुः।
परस्मैपदेलटि-सन्ताडयति, सन्ताडयतः, सन्ताडयन्ति। वि०लि०-सन्ताडयेत्, सन्ताडयेताम्, सन्ताडयेयुः।
'वर्ध' छेदनपूरणयोः। छेदनं, पूरणं = अङ्कगुणनम् (गुणना)। (चुरादौ) परस्मैपदे(स०अ०)
लटि-वर्धयति, वर्धयत:, वर्धयन्ति। वि०लि०-वर्धयेत्, वर्धयेताम्, वर्धयेयुः। आत्मनेपदे-(स०अ०)। लटि-वर्धयते, वर्धयेते, वर्धयन्ते। वि०लि०-वर्धयेत, वर्धयेयाताम्, वर्धयेरन्।
For Private and Personal Use Only