________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दृष्ट्यादिसर्गः
१५५ कृतस्थिति: (त्रि०), कृतसंस्था। कृता स्थिति: संस्था येन एवं विधो राहुः। यथा-'घटसिंहवृश्चिकोदयकृतस्थितिर्जीवितं हरति राहुः।।' इ०सा०व०। संश्रयः (पु०), आश्रितः। यथा-'ग्रहैस्तत: पञ्चिभिरुच्चसंश्रयैः' इति रघौ ३/१३ स्थलम् (न०), १ स्थानम् २ स्थलिः। यथा-'लाभस्थौ सुखभाग्येशौ पश्यन्तो वा सुखस्थलम्।' इ०जा०पा०।
अपि च‘शीर्षोदयभाजि कण्टके सन्निचिते दीक्षणधीस्थले विदीज्ये।' इति ज्यो०भ०। स्थानम् (न०), गृहम्। यथा-'क्षेत्रस्थाने शुभक्षेत्रे तदीशे शुभसंयुते। इति। 'तरणीन्दुकुजा: पुत्रस्थाने युक्ता न सौम्यगा:।' इति च सर्वाथचिंतामणौ। अथेदानी मिलित्वाऽव्ययवाचकशब्दोदाहरणानिउपेत्य (अ०), समुपेत्य। यथा-'दनुजगुरुमुपेत्यादित्यसूनुर्मदस्थः' इ०० का०। मिलित्वा (अ०), समेत्य यथा-'मदे मिलित्वा मृदुमङ्गलेना: कुर्वन्ति भार्यामरणं नरस्य। इ० ग्र०का०। सम्मिल्य (अ०), मिलित्वा। यथा-'सम्मिल्य सौम्यास्फुजिदिन्दुजीवाः स्मरे विवाह झटिति प्रकुर्युः।' इ०ग्रं०का०। समुपेत्य (अ०), समेत्य। यथा-'कलेवरेशं समुपेत्य वित्तपः' इ००का०। समेत्य (अ०), मिलित्वा यथा-'मित्रे कपं मङ्गलहेलिमन्दा: समेत्य जन्तोर्जननी हरन्ति।' इ००का०। अथवा-'मित्रोदयं राजमदं स्वराज्यं राज्यं रिपोर्यच्छति यो जनेशः।। नेतुं समेत्योदयमेवमीयात्तमादराद्वेरिजनेरितार्थः।
अस्यार्थ:-मित्रोदयं लग्नस्थसूर्य, राजमदं सप्तमस्थचन्द्रं, स्वराज्यं धनस्थबुधं एवं विधं उदयं लग्नं समेत्य प्राप्येति। इति ज्योतिर्विदाभरणे।
अथ साम्प्रतं प्राप्यवाचकावययशब्दोदाहरणानिअधिगम्य (अ०), सम्प्राप्य। यथा-'सूर्यात्मजांशमधिगम्य हिमांशुरङ्गे' इ००प०। प्राप्य (अ०), अधिगम्या यथा-'प्राप्येन्द्रमन्त्रीन्दुगृहं यदोदये' (इ.अं.का.)। सम्प्राप्य (अ०), अधिगम्य। यथा-'सम्प्राप्य पंगुः कलशं कलेवरे' इ०ग्र०का०। अथ साम्प्रतं सम्बन्धपर्यायाणामुदाहरणानिपृक्तिः (स्त्री०), सम्पर्कः, स्पृष्टिः, स्पर्शः।
For Private and Personal Use Only