________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४
ज्योतिर्विज्ञानशब्दकोषः गतगम्ययोः पर्यायौ यात-येयावित्युक्तं
__ श्रीपतिनामिहिरविरहितेन्दोरंशकेभ्यो द्विचन्द्रैर्गततिथिनिचय: स्यात्तत्र शेषं गताख्यम्। तदपि हरविशुद्धं गम्यकं तद्विलिप्ता गतिविवरविभक्ता यातयेया विनाड्यः। इति सिद्धान्तशेखरे इति केतकीटीकायाम् ७२/१५३ सर्वक्षेप०-सर्वभोगः, सर्वभोग्यः, सर्वक्षम् स्पष्टभुक्तप०-स्पष्टभुक्तम्, स्फुटभुक्तम्। स्पष्टभोग्यप०:-स्पष्टभोग्यम्, स्फुटभोग्यम्। स्पष्टसर्वक्षप०-स्पष्टसर्वक्षम्, स्फुटसर्वक्षम्। दशापर्यायाः-दशा, दायः।
दशानामानि-अष्टोत्तरीदशा, कालचक्रीदशा, चरदशा, महादशा, योगिनीदशा, विंशोत्तरीदशा। एवं अन्या अपि विविधा दशाः सन्ति।
विंशोत्तरीदशेशनामानि-(१) आदित्यः, (२) चन्द्रः, (३) कुजः, (४) राहुः, (५) जीवः, (६) शनि:, (७) बुधः, (८) केतुः, (९) शुक्रश्चैते विंशोत· कृत्तिकानक्षत्रत: क्रमेण आदित्यादयो नवग्रहा दशाधिपा ज्ञेयाः।
दशेशवर्षाणि-(१) रसाः, (२) दश, (३) शैलाः, (४) धृतिः, (५) अष्टिः, (६) अतिधृतिः, (७) अत्यष्टिः (८) सप्त, (९) विंशतिः। इति आदित्यक्रमतो दशेशानां वर्षाणि सन्ति ।
योगिनीदशाधिपनामानि-(१) मङ्गला (२) पिङ्गला, (३) धान्या, (४) भ्रामरी, (५) भद्रिका, (६) उल्का, (७) सिद्धा, (८) सङ्कटा, चैता अष्टौ योगिनीदशाधिपा आर्द्रानक्षत्रत: क्रमेण ज्ञेयाः।
योगिनीदशेशवर्षाणि-(१) एकः, (२) द्वौ, (३) त्रयः, (४) चत्वारः, (५) पञ्च, (६) षट् (७) सप्त, (८) अष्टौ, चेति मंगलाक्रमतो दशाधिपानां वर्षाणि सन्ति।
दशाप्रभेदाः-(१) दशा, (२) अन्तर्दशा, (३) विदशा (उपदशा), (४) सूक्ष्मदशा (५) प्राणदशा, चेत्येते दशायाः पञ्चभेदा: सन्ति।
अन्तर्दशापर्यायाः-अन्तरम्, अन्तर्दशा, अन्तर्दाय:, अपहारः, अपहति:, भुक्तिः, हतिः। विदशाप०-उपदशा, विदशा। पाचकप०-पक्ता (क्त), परिपाचकः, पाचकः। फलपाककालप०-परिणतिः, परिणाम:, परिपाकः, पाकः, फलपाककालः, विपाकः। जन्मराशिप०-जन्म (अन्), जन्मभम्, जन्मराशि:, जन्मक्षम्।
जन्मराशिस्वामिप०-ऋक्षेशः, जन्मभनाथः, जन्मराशिनाथः, जन्मक्षस्वामी इन्। ।। इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुना
डॉ० सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे आयुर्दायादिसर्गः एकादशः ॥११॥
For Private and Personal Use Only