________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
भावादिसर्गः
नेत्रगृहपर्यायाः – चक्षुर्गृहम्, नयनभवनम्, नेत्रगृहम्, लोचनालयः ।
मैत्रीपर्यायाः – अजर्यम्, मैत्री, सख्यम्, सङ्गतम्, साप्तपदीनम्, सौहार्दम्, सौहृदम्। मैत्रीभेदा: - ( १ ) तत्कालमैत्री, (२) निसर्गमैत्री, (३) पञ्चधामैत्री, चैते मैत्र्यास्त्रयो
भेदाः स्युः ।
तत्कालमैत्र्याः प्रभेदौ - (१) मित्रभवनानि (२) शत्रुभवनानि चैतौ द्वौ प्रभेदौ स्याताम्। स्वतो मित्रभवननामानि – द्वितीयम्, तृतीयम्, चतुर्थम्, दशमम्, एकादशम्, द्वादशम् । स्वतः शत्रुभवननामानि - एकभम्, पञ्चमम्, षष्ठम्, सप्तमम्, अष्टमम्, नवमम् । निसर्गमैत्र्याः प्रभेदाः - ( १ ) मित्राणि, (२) समा: (समाना:, उदासीनाः), (३) शत्रवश्चैते निसर्गमैत्र्यास्त्रयः प्रभेदाः स्युः ।
मित्रग्रहनामानि - (१) चन्द्रारजीवा:, (२) ज्ञार्की, (३) रवीन्द्विज्या:, (४) भार्को, (५) रवीन्द्वारा: (६) ज्ञार्की, (७) ज्ञाच्छौ, चैतद्रव्यादिग्रहाणां क्रमान्मित्राणि सन्ति ।
Acharya Shri Kailassagarsuri Gyanmandir
समग्रहनामानि - ( १ ) बुधः, (२) भौमेज्यभार्कय:, (३) भार्की, (४) आरेज्यार्कयः, (५) शनि:, (६) आरेज्यौ, (७) जीवश्चैते रवेः क्रमात्सप्तग्रहाणां समाः सन्ति ।
शत्रुग्रहनामानि – (१) भार्की, (२) अभाव:, (३) बुध:, (४) चन्द्र:, (५) भाच्छौ, (६) रवीन्दू, (७) रवीन्द्वाराश्चैते रवेः क्रमात्सप्तग्रहाणांसपत्नाः सन्ति ।
(१) द्विधा (तत्कालनिसर्गमैत्र्योः) मित्रता = अधिमित्रता । (२) द्विधा (तत्कालनिसर्गमैत्र्योः) शत्रुता = अधिशत्रुता ।
१२७
पञ्चधामैत्र्याः प्रभेदाः - (१) अधिमित्राणि, (२) मित्राणि, (३) समा:, (४) शत्रवः, (५) अधिशत्रवश्चैते पञ्चधामैत्र्याः पञ्चप्रभेदाः सन्ति ।
ते च यथा
(३) एकत्र मित्रता अन्यत्र शत्रुता = समता। (४) एकत्र मित्रता अन्यत्र समता = मित्रता ।
शत्रुता।
(५) एकत्र शत्रुता अन्यत्र समता = एवमनेन पञ्चधा मैत्री विज्ञेया ।
सन्मित्रपर्यायाः - शुभसुहृत् (द्), सन्मित्रम्, स्विष्टः ।
कारकपर्यायाः - कर्ता, कारक:, विधायकः ।
कारक भेदौ – (१) चरकारकः (२) स्थिरकारकश्चैतौ कारकस्य द्वौ भेदौ स्याताम् । चरकारकनामानि : – (१) आत्मकारक:, (२) अमात्यकारकः, (३) भ्रातृकारक:, (४) मातृकारक, (५) पितृकारक:, (६) पुत्रकारक:, (७) ज्ञातिकारक:, (८) दाराकारकश्चैतेंऽशाधिकतः क्रमेणाष्ट चरकारकाः स्युः ।
भाव (स्थिर) कारकग्रहनामानि - (१) सूर्य:, (२) गुरु:, (३) भौम:, (४) ज्ञेन्दू, (५) गुरुः, (६) भौमार्की, (७) शुक्र:, (८) शनि:, (९) सूर्येज्यौ, (१०) ज्ञार्केज्यार्कयः, (११) गुरुः, (१२) शनिश्चैते तनुभावतः क्रमेण स्थिरभावकारकाः स्युः ।
For Private and Personal Use Only
वर्गप ० - कला, गणः,
वर्ग: ।
जातके वर्गभेदा: - ( १ ) षड्वर्गा:, (२) सप्तवर्गा:, (३) दशवर्गा:, (४) षोडशवर्गा