________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
||श्री।।
सुरकान्तसंकलितः ज्योतिर्विज्ञानशब्दकोषः
-Smsex
अथ पञ्चाङ्गसर्गः-१ सर्वदा सर्वकार्येषु नस्ति तेषाममङ्गलम् । येषां हदिस्थो भगवान् मङ्गलायतनं हरिः ।।१।। लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।। येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ।।२।। स्मृते सकलकल्याणभाजनं यत्र जायते । पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ।।३।। सर्वेषारभ्यकार्येषु
त्रयस्त्रिभुवनेश्वरः । देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दनाः ।।४॥ विघ्नध्वान्त निवारणैक तरणिं कृत्स्नैः सदा सेवितं । श्रीविघ्नेशपदारविन्दयुगलं ध्यात्वा तथा भक्तितः स्वान्ते श्रीगुरुपादपद्मयुगलं कल्याणकल्पद्रुमं
ह्यत्र ज्योतिश्शब्दकोषं संप्रकुरुते सुर्कान्तः तद्ग्रन्थतः।।५।। पञ्चाङ्गपर्याया:-पञ्चाङ्गम्, पञ्जिः, पञ्जिका, पञ्जी, तिथिपत्रम्, तिथिपत्रिका, तिथिपत्री।
पञ्चाङ्गावयवनामानि–(१) तिथि:, (२) वारः, (३) नक्षत्रम्, (४) योगः, (५) करणम्, चेत्येतानि पञ्चाङ्गस्य पुञ्चावयवानि सन्ति।।
तदुक्तं
तिथिर्वारश्च नक्षत्रं योगः करणमेव च, पञ्चाङ्गस्य फलंश्रुत्वा गङ्गास्नानफलं लभेद् ' इति। अपि च-'वारो हरति दुःस्वप्नं नक्षत्रं पापनाशनम्। तिथिर्भवति गङ्गाया योग: सागरसङ्गमः। करणं सर्वतीर्थानि श्रूयते यत्र पञ्जिका' इति शब्दार्थचिन्तामणिः।१६।२।१।
For Private and Personal Use Only