________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(७५)
पूरणे, भविष्यन्ति - उत्पत्स्यन्ते, यतो- यस्माद, अमी वक्ष्यमाणाः, दोषा दूष
णानि, इति गाथार्थः ।
तानैवाह
'भज्जेज्ज व अवणेज व कोई तो तुम्ह कम्मबंधो उ । तम्हा वुज्झह पुनं पावं वा निययपरिणामा ॥ १९३ ॥
व्याख्या- विनाशयेद्, अपनयेद् - स्थानान्तरे कुर्याद्, वाशब्दः समुच्चयार्थः- उपलक्षणत्वाद् मत्सरादिकं वा तदुपरि विदध्याद्, कोऽपि - एकः, ततः, तुम्हेति युष्माकं भवताम, कर्मबन्ध एव ज्ञानावरणीयाद्युपश्लेषः, तुः - एवकारार्थः, भवन्निमित्तत्वादिति हृदयम् । तस्माद्, बुध्यध्वं जानीत, पुण्यं शुभकर्म, पापं - तद्विपरीतम, वा शब्दः समुच्चये, निजकपरिणामात् स्वाभिप्रायाद् । इति गाथार्थः ॥
परिणाममेव व्यक्तीकुर्वन्नाह -
दितस्स पुन्नमउलं भक्वंतस्स य पुणो महापावे । कुसलेयरभावाओ एवं चिय जिणगिहाइसु वि ॥ १९४ ॥
व्याख्या - ददतः प्रयच्छतो भव्यस्य 'जिनाय वस्त्रादि ' इति शेषः, पुण्यंशुभम, अतुल्यम् - अनन्यसदृशम्, भक्षयतश्च - पुनरश्नतः, महापापं गुरु किल्बिषम, कुशलेतरभावाद् - प्रधानाप्रधानान्तःकरणाद्, एवम - इत्थम्, जिनगृहादिष्वपि - सर्वज्ञमन्दिर - प्रतिमादिकरणादिषु इति गाथार्थः ॥
व्यतिरेकमाह
जइ पुण तह कायवं जह दव्वं नेय होइ चेइहरे । ता कह सहलं वयणं एवं सिद्धंतसुपसिद्धं ॥ १९५ ॥
व्याख्या - यदि पुनस्तथा कर्तव्यम्, यथा नैव भवति द्रव्यं चैत्यगृहे, ततः कथं सफलं - चरितार्थं वचनमेतद्-उपदेशपदपठितम, अर्थवः सिद्धान्तसुप्रसिद्धम् ? इति गाथार्थाः ॥
तदेव गाथायेणाह --
For Private And Personal Use Only