________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(६७) नो नैव, इतरथा संवादाभावे, कुतः ? अतिप्रसङ्गात्-स्वाभिप्रायवशतोऽन्यथा चान्यथाकरणतो अनवस्थात इति गाथार्थः ॥
अथ यतिवच्छ्रावकाणामपि दृश्यं तदित्याह
जइ जइकिचं सव्वंपि सावयाणंपि हुज्ज करणीयं ।
तो इक्को चिय धम्मो हवेज दुविहो विरुझिज्जा ॥ १६४ ॥ व्याख्या-यदीत्यभ्युपगमे, यतिकृत्यं साध्वनुष्ठानं सर्वमपि निःशेष श्रावकाणामपि श्राद्धानां, न केवलं यतीनामित्यपिशब्दार्थः भवेज्जायेत करणीयं कृत्यं तत एक एव धर्मो भवेत् , द्विविधो द्विप्रकारो विरुध्येत विघटेतेति गाथार्थः ॥
अत्रैवार्थे कारणान्तरमाह-- तह संपुन्नगुणोवि हुन वंदिओ वजपाणिणा भरहो ।
तो नजइ सडाणं वेसो चिय होइ नमणीओ ॥ १६५॥
व्याख्या-तथाऽभ्युच्चयार्थः, संपूर्णगुणोऽपि सुविशुद्धज्ञानादिरपि हुः पूरणे, न वन्दितो न नमस्कृतो वज्रपाणिनेन्द्रेण भरतः प्रथमचक्री वेषरहित इति शेषः, तस्माद् ज्ञायते बुध्यते श्राद्धानां श्रावकाणां वेष एव रजोहरणादिको भवति जायते नमनीयो वन्ध इति गाथार्थः ॥
सूत्रकृतसम्बन्धं गाथाद्वयमाहकिंच जइ सावयाणं नमणं नो समयं भवे एयं । पासत्थाईयाणं ता कह उवएसमालाए ॥ १६६ ॥ सिरिधम्मदासगणिणा न वारिअं वारियं च अन्नेसि। .. 'परतित्थियाणं पणमण' इचाइधयणओ पयडं ॥ १६७ ॥ .
व्याख्या-किश्चाभ्युच्चये, यदि विकल्पार्थः, श्रावकाणां श्राद्धानां वन्दनं नमनं नो नैव सम्मतं भवेज्जायेत एतत्पूर्वोक्तम् , केषाम् ? इत्याह-पार्थ
For Private And Personal Use Only