________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ५६ )
व्याचक्षसे किश्चित् स्तोकं, दीर्घता चात्र पूर्व्ववत्, तदपि च इतिबुद्धया एवं
मत्या कथय ब्रूहि इति गाथार्थः ॥
तामेवाह
अविकोविदेहिं तरलियइणो मा धम्मबाहिरा हुंतु । एए भव्वा, दंसेमि तेण पडिवक्खवयणाई ॥ ११८ ॥ व्याख्या - अविकोविदैरगीतार्थैस्तरलितमतयो विसंस्थुलबुद्धयो मेति प्रतिषेधे धर्म्मवाद्या दानाद्युत्तीर्णा भवन्तु एते प्रत्यक्षवर्तिनो भव्या मोक्षयोग्याः, दर्शयामि प्रकटयामि तेन कारणेन प्रतिपक्षवचनानि उत्तरवचांसि । ननु अन्यान् वारयसि, स्वयं तु संवदनार्थं निजभणितस्य सर्व्वत्र तद्गायाः कथयसि, विरुद्धमिदम् सत्यं, यदा विप्रतिपन्नो जनो दर्शनं प्रति भवति, तदा रहस्यकथनेप्यदोषः । तथा च निशीथभणितमिदं - -
64 तम्हा न कहेयव्वं आयरिए एंतु पवयणरहस्सं ।
खेत्तं कालं पुरिसं नाऊण पगासए गुज्झ ।। इति गाथार्थः ॥ व्यतिरेकमाह-
जइ पुण तुमपि एमेय कहसि सड्डाणं दुब्वियड्डाणं
ता तुज्झवि भवदंडो निरत्थओ एरिसो होही ॥ ११९ ॥
व्याख्या -- यदि पुनस्त्वमपि न केवलं पूर्वोक्त इत्यपेरर्थः । ' एमेयं ति तरलितमत्यभावे कथयसि जल्पसि श्राद्धानां श्रावकाणां, किंविशिष्टानां १ दुव्विदग्धानां ज्ञानलवगव्र्वोद्धराणां तस्मात्तवापि न केवलं पूर्वोक्तानामित्यपे - रर्थः, भवदण्डः संसारभयं निरर्थको निष्प्रयोजन ईदृग् ईदृक्षो भविष्यतीति गाथार्थः ॥
श्रावक सिद्धान्तगाथा पाठनविचारणो विशंतितमोऽधिकारः
एकविंशतितममाह
अन्ने उ अहम्माणी निययाभिप्पायउज्जयविहारी । नियसिस्सखंधचडिया अहंति बहुगामनगरेसु ॥ १२० ॥
For Private And Personal Use Only