________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( ५४ )
चार्याणां चः समुच्चये, प्रायश्चित्तमेव समये प्रतीतमुत्सर्गतः, खलुरवधारणे एतत् वक्ष्यमाणं सिद्धान्तादागमात्पुनस्तेषां श्रावकाणां षड्जीवनिका समयप्रसिद्धा सूत्रेण पाठनलक्षणेन सूत्रानुज्ञायामर्थोऽपि एतस्यानुज्ञातो द्रष्टव्यः, अर्थतः अभिधेयमाश्रित्य पिण्डेषणैव प्रतीता कल्पते युज्यते अपवाद इति शेषः पठितुं सूत्रत श्रोतुं चार्थतः आगमान् सिद्धान्तान्, न पुननैवान्यदरपरम् । तथा च निशी धगाथार्द्धम् " पव्वज्जाए अभिमु वा एति गिहिअन्नपासंडी । " एतच्चूर्णि: - गिहिं अन्नपासंडिं वा पव्वज्जाभिमुहं सावगं वा ' छज्जीवणिय ' त्ति जाव सुत्तर अत्थर जाव पिंडेसणाए, एसगिहत्थासु अववाउति " इति गाथाद्वयार्थः ॥
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रेण विहितसंबंधां गाथामाह
किंच जणवि परिणामआण दिजंति छेयसुत्तस्था । अडपरिणयाण परिणमियाण न उणामदिहंता ॥ ११२ ॥ व्याख्या - किञ्चेत्यभ्युच्चये । श्रावकाणां तावत् छेदग्रन्थादीनां सर्वथा निषेधः सिद्ध एव यतीनामपि व्रतिनां परिणामकाणां उत्सर्गापवादप्रियाणां दीयन्ते छेदग्रन्थसूत्रार्थाः - प्रतीताः, अतिपरिणामकानामपवादरसिकानां अपरिणामकानामुत्सर्गतन्निष्टानां नैवः नच पुन शब्दोऽवधारणार्थो दर्शित एव आम्रदृष्टान्ताच्चूतज्ञातात् । तच्चेदं - "किल केनचिदाचार्येण सिद्धान्तरहस्यं दातुकामेन निजक्षुल्लकपरीक्षार्थं क्षुल्लकत्रयं क्रमेणाहूयेदमुक्तं भो ! अस्मदर्थं आम्रफलान्यानयत । ततस्तैरिदं 'क्रमेण चिन्तितं श्यामप्रहृष्टसह जवदनकमलैरकृत्यमिदं, भव्यमिदं, तृतीयेन किं खण्डैर्वागोल्यैर्वा पक्कैरपक्वैः तैः प्रयोजनम् ? इति न सम्यग् ज्ञायते, ततो गुरुमभिवन्द्य पृष्टवान् - भगवन् ! अवगतो युष्माकमादेशः, परं विशेषतो ज्ञातुमिच्छामि ततः कथयन्तु पूज्याः, येन तान्यानयामि शीघ्रमिति । अत्र प्रथम उत्सर्गप्रियत्वादपरिणामको द्वितीयस्त्वपवादरुचित्वादतिपरिणामकः, तृतीयस्तूभयप्रियत्वात्परिणामकः । आद्यावत्रायोग्यौ, तृतीयस्तु योग्य इति गाथार्थः ॥
अत्रैवार्थे दोषमाविष्कुर्व्वन्निदमाह -
ww
अविहियवहाणाणं नाणइयारण तह असज्झाए । सज्झायं कुर्णताणं ववहारे भणियमेवंति ॥ ११३ ॥
For Private And Personal Use Only