________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ५२ )
संपइ निचं कीरs सन्निज्झाभावओ विसिट्ठाओ । वेयावच्चगराणं इच्चाइ वि बहुयकालाओ ॥ १०४ ॥
व्याख्या - साम्प्रतमधुना नित्यं प्रतिदिवसं क्रियते विधीयते, कस्मात् ? सान्निध्याभावतः तस्य करणाद्, विशिष्टादतिशायिनो वैयावृत्त्यकराणां प्रतीतामित्याद्यपि न केवलं कायोत्सर्गादीत्यपेरर्थः, आदिग्रहणात् 'संतिकराणामित्यादि दृश्यं प्रभूतकालात् बहोरनेहस इति गाथार्थः ॥
इत्थं स्थिते किं कर्त्तव्यम् ? इत्याह
विग्धविधायण
चेहर रक्खणा य निचपि । कुज्जा पूयाईयं एयाणं धम्मवं किंच ॥ १०५ ॥
व्याख्या - विघ्नविघातनहेतोरुपसर्गनिवारकत्वेन आत्मन इति शेषः, चैत्यगृहरक्षाच्च देवभवनपालान्नित्यमपि सर्व्वदा न केवलमेकदेत्यपिशब्दार्थः, कुर्याद्विदध्यात् पूजादिकमादिशब्दात्कायोत्सर्गादिकारं, एतेषां ब्रह्मशान्त्यादीनां धर्मवान् धार्मिकः । अयमभिप्रायः- यदि मोक्षार्थमेतेषां पूजादि क्रियते ततो दुष्टं, विनादिवारणार्थं त्वदुष्टं तदिति, किश्चेत्यभ्युच्चये इति गाथार्थः
अभ्युच्चयमेवाह
मिच्छत्तगुणजुयाणं निचा इयाणं करिंति पूयाई । इहलोकए सम्मत्तगुणजयाणं न ऊण मूढा ॥ १०६ ॥
व्याख्या - मिध्यात्वगुणयुतानां प्रथमगुणस्थानवर्त्तिनां नृपादीनां नरेश्वरादीनां कुर्वन्ति पूजादि अभ्यर्चनं नमस्कारादि इहलोककृते मनुष्यजन्मोपकारार्थं, सम्यक्त्वयुतानां दर्शनसहितानां ब्रह्मशान्त्यादीनामिति शेषः, न पुनर्नैव मूढा अज्ञानिन इति गाथार्थः ॥
इत्थं स्थिते जीवोपदेशमाह -
मा मा तुमं निवारसु तम्हा एयाण पूणाईयं ।
जई निव्विग्धं धम्मं इच्छसि काउं सया जीव ॥ १०७ ॥
For Private And Personal Use Only