________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २८ ) ज्ञानं मत्यादि, चारित्रं शीलतपोऽनशनादि, विनय आचार्यायोचित्यकरणमिति । न चात्रेदमाशङ्कनीयम्-एकविभक्तिनिर्देशात् समुदिता एवामी पूज्या न वियुताः, ततः पूर्वोक्तव्याहतिः, यतस्तत्रैव निषेधे एकत्रेदमुक्तं-"नाणमंतेसु भत्तीवहुमाणो कायव्यो । " " तथा नाणाइमंतेसु भत्ती" इत्यादि । दर्शनज्ञाने तु यद्यपि युक्ते सर्वदैव भवतः, तथापि विशिष्टज्ञानरहितं केवलं दर्शनं भण्यते इत्यादि स्वधियाऽभ्युह्यं गीतार्थैरिति गाथार्थः ।।
अत्रार्थे जीवोपदेशमाहरे जीव ! तुमं तम्हा सिहरट्टियधयवडोव्च मा चलसु ।
काउणं थिरचित्तं गुणाणुराइत्तणं धरसु ॥ ३४ ॥ व्याख्या--रे जीव ! त्वं तस्मात्कारणाच्छिखरस्थितध्वजपटवत् चैत्यशृङ्गदण्डचेलाञ्चल इव मेति निषेधे चल कम्पस्व, कृत्वा विधाय स्थिरचितं-अविचलमानसं,गुणानुरागित्वं गुणवत्तीतिलक्षणं धारय स्वीकुरु इति गाथार्थः।।
समाप्तोयं दाननिषेधविचारवर्णनः षष्ठोधिकारः॥ इदानीं सप्तमः प्रारभ्यतेकुग्गाहुच्छाइयसुहविवेयपसरा रसंति एवन्ने ।
नो माहमाल जुत्ता सिद्धते जेण पडिसिद्धा ॥ ३५ ॥
व्याख्या-कुग्राहेण दुष्टाभप्रायणोच्छादितोऽपनीतः शुभः प्रशस्तः विवेकप्रसरः कृत्याकृत्यानुष्ठानविभागो येषां ते रसन्ति जलन्ति एवं वक्ष्यमाणप्रकारेणान्येऽपरे । तदेवाह-नो नैव माघमाला प्रतीता युक्ता सङ्गताः किम् ? इ त्याह-सिद्धान्ते आगमे यस्मात् प्रतिषिद्धा निवारितेति गाथार्थः । तमेव निषेधं दर्शयितुं पराभिप्रायेण किञ्चिदून गाथार्द्धमाह -
लोइयतित्थेसु ण्हाणदाणइचाइवयणओ
व्याख्या-लौकिकतीर्थेषु पराभिमतपुण्यक्षेत्रेषु अनुस्वारोऽत्र पूर्ववत्-, स्नानदानमित्यादिवचनतः, आदिशब्दात्संक्रान्तिग्रहणादिग्रहः, तत्र स्नानं तत्ती र्थेषु जलादिना, दानं तु तत्सम्मतक्षेत्रे द्रव्यादिवितरणेन कार्यमिति प्रक्रमाद् दृश्यं
For Private And Personal Use Only