________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २५ ) प्रकटार्था । नवरं 'स्वर्ग' इति उपलक्षणत्वान्मोक्षसाधकश्चेत्यपि द्रष्टव्यम् । ननु मोक्षस्य प्रधानत्वात्कथं तस्योपादानं सूत्रे न कृतम् ? सत्यं, साम्प्रतकालापेक्षया अनन्तरं स्वर्गस्यैव भावादिति गाथार्थः ॥
सभाप्तो वन्दनकत्रयविचारलक्षणश्चतुर्थोऽधिकारः ॥ साम्प्रतं पञ्चमः__ अइगरुयमोहविहुणियसुहबोहा केइ धम्ममगाणंता।
कारिति णदिमाई सङ्घीणं संजईहिंतो ॥ २४ ॥
व्याख्या-अतिगुरुकमोहविधूनितशुभबोधा बृहत्तरमूढताकम्पितप्रधानमतयः केचनैके धर्म शान्त्यादिकमगणयन्तस्तिरस्कुर्वाणाः कारयन्ति नन्द्यादिकम्, मकारोज प्राकृतप्रभवः । आदिशब्दानिषिद्धानुष्ठानादिग्रहः । तत्र नन्दिरुपधानादिषु समयप्रतीतो विधिः, श्राद्धीनां श्राविकाणां 'संजईहितो'त्ति संयतीभ्यो व्रतिनीभ्यः सकाशात् 'हिंतो' त्ति पञ्चम्याः स्थाने निर्देशः, "उहितोलोपान्नस्यातः पञ्चम्याः (?) ।" इति प्राकृतलक्षणेन, स च दर्शित एव । अयमभिप्रायः-स्वयं विहारं व्रजन्तोऽन्येषु आचार्येषु बहुश्रुतादिषु विद्यमानेषु निजार्यिकाभिः श्राविकाणां नन्द्यादि कारयन्ति, यदि पुनरेकोप्याचार्यस्तत्र न भवति ततः सामाचार्या अविरुद्धमपि भवेदिति गाथार्थः ॥ एतस्यापि आगमसंवादपूर्वकं प्रतिषेधपूर्वं जीवोपदेशमाह
आरेण अजरक्खिय-इच्चाईवयणओ न तं जुत्तं ।
रागहोसविमुक्को रे जीव तहिपि मा मुज्झ ॥ २५ ॥ व्याख्या-आरेणेत्याक् आर्यरक्षितेत्यादिवचनतः, आदिग्रहणात् " कालाणुन्नाओ नत्थि अजाणं सामइयं तह वयारोवणं च पच्छित्तदाणं चेति " दृश्यं सुबोधश्च । अयमभिप्रायः-निगोदजीवविचाराायातदेवेन्द्रवन्दितार्यरक्षिताचार्यात् पूर्वमासीत् कालादिषु आर्यिकाणामनुज्ञा, अकि पुनर्नास्ति, सामायिकादिकं च नन्दिपूर्वकं क्रियते, ततः तत्प्रतिषेधात् एतदपि प्रतिषिद्धं बोद्धव्यम् । अतो नेति निषेधे, युक्तं संमतं, रागद्वेषविमुक्तोऽभिष्वङ्गमत्सररहितो जीवेत्यामत्रणे, नन्द्यादिकरणेपि न केवलं पूर्वोक्तेषु इत्यपि शब्दार्थः । मेति निषेधे मुह्यस्व मोहं विधेहि इति गाथार्थः ॥ २५ ॥
For Private And Personal Use Only