________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २३ ) ननु किमत्रदूषणं ? यदि प्रत्याख्यानालोचनापराधक्षामणार्थं वन्दनकत्रयं दीयते, आचार्यः प्राह-शास्त्रोक्तव्याहतेः। कथम् ? अत आह गाथे--
जम्हा पच्चरकाणे कयंमि अहिगे य जायसस । वंदणयं दाऊणं तं कीरइ ण उण सव्वत्थ ॥२८॥ आलोयणेवि गामा-गयस्स साहुस्स बंदणं भणियं ।
पञ्चक्खाणालोयणधणिमि मुझंति मंदमई ॥२९॥ व्याख्या-यस्माद्यतः प्रत्याख्याने एकाशनादिके कृते विहिते सति अधिक पुनरत्यर्गले, चः पुनरर्थः स च दर्शितः जातश्रद्धस्योत्पन्नवाञ्छस्योपवासो मया कर्तव्य इति उपलक्षणत्वादस्याहारपरिणामाभावेऽभक्तं ग्रहीतुकामस्य तृतीयपौरुष्यां वा भुक्तोत्तरप्रत्याख्यानं कुर्वाणस्येत्यपि द्रष्टव्यम् । वन्दनकं द्वादशावर्तलक्षणं दत्त्वा वितीर्य तत्पत्याख्यानं क्रियते विधीयते, न पुन व सर्वत्र प्रत्याख्याने आलोचनेऽपि न केवलं प्रत्याख्याने पूर्वोक्तयुक्त्या विशेष इत्यपिशब्दार्थः प्रामागतस्य विहारानिवृत्तस्योपलक्षणवादपराधालाचनोपसदालोचने अपि दृश्ये। साधोयतेर्वन्दनं द्वादशावर्त भणितं प्रतिपादितम् । अयमभिप्रायः पूर्व-प्रत्याख्यानं विहितं, पश्चादधिकतपोवाञ्छा जाता, अपरिणतिर्वा भुक्तोत्तरे वा, ततो वन्दनं दत्वा प्रत्याख्याति, न पुनः प्रथमतः प्रत्याख्याने विहाराचागत आलोचना दास्यति, स्थानस्थितो वाऽपराधालोचनां दत्त्वा प्रायश्चित्तं लास्यति, उपसम्पदर्थ वाऽऽलोचयिष्यति, ततो वन्दनं दत्वा आलोचयति नेत्थं सामान्यालोचने । नन्वपराधालोचनात्र भविष्यति, ततः को दोष ? सत्यं, संख्याविरोधः स्यात् । अस्यां हि वन्दनकद्वयं दीयते, ततश्चत्वारि स्युः, न त्रीणि। तथा चोक्तं चूर्यो“विगई आयंबिले काउस्सगो परियट्टिए समाणे । उवसंपन्जणअवराहविहारउत्तमहालोयणा एया। एएसु सत्तसु दो दो वंदणगा।" किञ्च-यद्याचार्यपुरतोऽयराधान्निवेद्य प्रायश्चित्तं लाति, ततो भवति वन्दनं श्रावकस्य वृद्धाचरणतो नतु मूत्रतः, नहि श्रावकस्य सूत्रे आलोचनाविधानमस्ति, वृद्धसामाचारी चास्माकं सम्मतैवेति । तथाचोक्तं -" वन्दनकस्थानप्रतिपादिकां
पडिक्कमणे सज्झाए काउस्सग्गावराहपाहुणए । आलोयणसंवरणे उत्तिमढे य वंदणयं ॥"
For Private And Personal Use Only