________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २१ ) दिरूपो भवति जायते कोप्यनिर्दिष्टनामा। अथवापीति विकल्पार्थः, षोडश्यां प्रतीतायां ग्रहणं सूर्योपरागलक्षणं भवतीति सम्बध्यते, व्यक्तं स्पष्ट पश्चदश्यां षोडश्यां वा ग्रहणं जातमित्यज्ञायमानेऽनवबुद्धयमाने द्विरात्रं त्रिरात्रं भवति वसितव्यम् । आचार्यस्य अयमभिप्रायः-यदि कृष्णचतुर्दश्यां मन्त्रग्रहणं न कृतं भवति ततः पञ्चदशीषोडशीरूपदिनद्वयं, कृते तु ग्रहणे कृष्णदतुर्दशीसहितं तदेव त्रयमज्ञातं भवति । ज्ञाते तु यदि कृष्णचतुर्दश्यां ग्रहणं पूर्वसेवालक्षणं कृतं ततो दिनद्वयं । कृते त्वेकमेवेत्यादि ग्रहणे-चन्द्रग्रहणे तु ज्ञाते एक दिन ज्ञाते तु दिनद्वयम् । नहि शुक्लचतुर्दश्यां पूर्वसेवा भवति, ये तु चतुर्दश्यां पाक्षिकं वदन्ति ते चन्द्रग्रहणे दिनद्वयं पौर्णिमाप्रतिपल्लक्षणमज्ञाते, ज्ञातेत्वेकमेव शुक्लपक्षे परिवर्तनं नेत्युभयोरपि मतत्वात् , आदिग्रहणे च ज्ञाते दिनद्वयं अज्ञाते तु दिनत्रयं भवति । किश्च यन्मते चतुर्दशी पाक्षिकं तन्मते चतुर्दशीग्रहणं " चाउह सिग्गहो होइ कोइ" इत्यत्र तन्निरर्थकं स्यात्, चतुर्दश्या अवस्थितत्वात् किं तद्ग्रहणेन । अन्यच्च पूज्या अत्रार्थे वदन्ति-यदा सांवत्सरिकं पञ्चम्यामासीत् तदा पाक्षिकाणि पश्चदश्यां सर्वाण्यभूवन् । यतः-"इय सत्तरी जहन्ना"। इत्येतत् पदमित्यं घटते । तथाहि - भाद्रपददिनानि दश, अश्वयुक्कार्तिकमासदिनपष्टिश्च, मीलिते च सप्ततिर्भवति । अभिवडियं मिवीसा इयरंमि सवीसई मासो।"-यतः श्रावणः परिपूर्णः भाद्रपददिनानि च विंशतिमीलिते च पञ्चाशत्, एवमनभिवार्द्धिते तु विंशतिस्सैव श्रावणदिनरहिता । साम्प्रतं चतुर्थ्यां पर्युषणा ततश्चतुर्दश्यां पाक्षिकाणि घटन्ते, यतो भाद्रपददिनान्येकादश, अश्वयुक्दिनानि त्रिंशत्, कार्तिकदिनान्यकोनत्रिंशत्, सर्वमीलने सप्ततिः । सविंशतिमासश्च एकं आषाढदिनं श्रावगदिनानि त्रिंशत् , भाद्रपदस्य चैकोनविंशतिश्च तथैव, परमेकं दिनं आषाढमासान्त्यं क्षेप गीयमिति । यच्चोच्यते एवं सति पठं स्थात् पाक्षिके, भातु, मासेन हि पाक्षिक पष्ठेन क्रियते इत्यस्माभिरुच्यते, किन्तु चतुर्थेन, चतुई श्युपवासश्च पर्वतिथितपोविधानं, मा तत्तत्र लगत्येतदप्यनिन्धः । तथा दिवसो पोसहो पक्खो वइकंतो" इत्यादिकस्य पाक्षिकक्षामणकस्य चूयाँ सष्टतरं व्याख्यानमिई-पौषधोऽटमीचतुर्दश्युपवासकरणं, ' पौषधंतु प्रतीतं'-इति न व्याख्यातं, अस्मादपि व्याख्यानात् चतुर्दशीव्यतिरिक्तः पक्षः प्रतीयते तथा च तत्रोतं " पोस होत्ति अहमीचउहसीसु उववासकरणं सेसं कंठमिति । यदि त्वत्रापि किश्चिद्वयाख्यानान्तरं
For Private And Personal Use Only