________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( १९ )
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या - पक्षप्रतिक्रमणकृते पाक्षिकातिचारशुद्धिनिमित्तं विवदन्ते निजनि जाभिप्रायोक्तिप्रत्युक्तिभिः स्पर्द्धन्ते । अयमभिप्रायः एके वदन्ति, पञ्चदश्यां पाक्षिकप्रतिक्रमणं विधीयते, अन्ये तु चतुर्दश्यां, उभयेषां मतस्यात्रोक्तत्वात् केsपि न सर्वे, नैव नच जानन्ति बुध्यन्ते निजधर्मधनं स्वषवित्तं ' अम्हे 'ति वयं हारयामः औद्धत्यकरणतः स्फोटयामः, उभयथा पञ्चदशी - परिग्रहेण चतुर्दशीग्रहणेन च येन यस्मात्कारणात् । शास्त्रभणितमपि आस्तामभणितमित्यपिशब्दार्थः, यत्प्रतिक्रमणादिकं नो नैव आचरितं सेवितं पूर्वमूरि भिश्चिरन्तनाचार्यैस्तत्प्रतिक्रमणादिकं नो निषेधे युज्यते घटते कर्तु अनवस्था 'प्रतिष्ठापक एतदन्यश्चान्यदन्यथा - करिष्यति' - इत्येवंरूपा, येन यस्मात् तत्करणे पूर्वाचार्याना वितविधाने भवतीति क्रियाध्याहारो दृश्य | यदपि नहु नैव पूर्वमूरिभिर्वहुश्रुतचिरन्तनाचायैर्निश्चितं तदपि अनिर्णीतमपि न केवलं स्वयमनिश्चितं न निश्चीयते इत्यर्थः । धर्मनिरतानां प्रधानोपशमामृतरसलम्पटानां विशेषेण आदरेण । तथाहि - पञ्चदश्यां पाक्षिकं चतुर्दश्यां वा पाक्षिकमिति निद्धा नोक्तं, पाक्षिकं तु प्रोक्तं सामान्येन । तत्र दशायुतस्कन्धे तावदित्थम् - " पक्खि
पोसहिए सुसमाहिपत्ताणं झियायमाणाणं इमाई दस चित्तसमाहिठाणाई अससुप्पन्नपुव्बाई समुप्पज्जेज्जा " । इदं सूत्रं, चूर्णिरस्य पक्खियं पक्खियमेव, पक्खिए पोसो पक्खिय पोसहो चाउदसी अट्ठमीसु वा । ' समाहिपताणं 'ति नाणदंसणचरितसमाहिपत्ताणंति नाणे वट्टमाणाणं । झियायमाणाणं इमाई दस चित्तसमाहिठाणाणि असमुप्पन्नपुव्वाणि समुपज्जेज्जा ।।" अत्र पाक्षिकं भिन्नं, चतुदशी अष्टमी च भिन्ने इति केचिद्व्याचक्षते । पोपधशब्देन चतुर्दश्यष्टम्योः संबन्धकरणात् ' चाउदसी अट्टमीसु वा पोसहो' इति । एवं व्याख्याने पञ्चदश्यां पाक्षिकम्, अत्र तु पाक्षिकशब्देन संवन्धकरणात् । नच चतुर्दश्यम्योः 'चाउइसी अमीसु वा पक्खियपोस हो ' इति पाक्षिकं चतुर्दशी (श्यां) कथयति, परमत्र मते चतुर्दशीग्रहणं निरर्थकं भवति, पाक्षिकशब्देनैव चतुर्दश्या ग्रहणात् अमी वा' इत्येतदेव भणितव्यं स्यात् पूर्वव्याख्याने तु पौषवत्रस्तावाचतुर्दशी अष्टमी पौषधमिति प्रतिपादितमित्यनिन्द्यम् । व्यवहारे चेदं कारणेनाचार्यः पृथगेकाकी एकरात्रादिकं वसतीत्येतस्मिन् प्रस्तावे -
6
"
“ विज्जाणं परिवाडी पव्वे पव्वे य दिंति आयरिआ । मासद्धमासियाणं पञ्चं पुण होइ मज्झं तु ॥
For Private And Personal Use Only