________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १५ )
जहा रिहं अरिदेसिए मग्गे (न) हवइ पवयणभत्ती अभत्तिमतादयो दोसा || " एतस्या व्याख्यानं सुबोधमिति कृत्वा न लिखितं, विशेषस्तु लिख्यते-' अभतितादयो दोसा ' अत्रादिशब्दस्य तत्रत्य आइसदाओ णिज्जरसुयलाभस्स अणाभागी भवइ । ननु विरुद्धमेतत् प्रथमगाथायां ' न कीर्त्तिर्न निर्जरा कर्म्म - बन्धश्च भवति' इत्युक्तं, अस्यां तु 'प्रवचनभक्तिर्भवति, अकुर्वतो अभक्तिः, , निर्जराaaorat च न भवतः ' इत्युक्तं, अतः कथं न विरोधः ? आचार्य आह - सत्यमुक्तं, परं सुकुमारमतित्वाद्विषयविभागं न वेत्सि त्वं अवहितो भूत्वा शृणु, कथ्यते अस्माभिः – निश्राव्यम् । यदि कारणं विना सुसाधुः पार्श्वस्थादीनां वन्दनादिकं करोति ततः कीर्त्त्यादिर्न भवति यैः पुनः कारणैरुक्तस्वरूपैः सुविहितोऽपि वन्दनादि न करोति ततः प्रवचनभक्त्यादि कृतं न भवति, अतः स्थितमेतत् कारणे सर्वमप्येतेषां कार्यम् । कल्पेऽप्येतत्सर्वं भणितं, नवरं परियागस्थाने 'परिवार' इत्युक्तं, परिसस्थाने परिषदिति व्याख्यातम् । तथाहि तद् गाथार्द्धम् - " परिवारो से सुविहिओ परिसगओ साहई व वेरगं" ति । आवश्यकचूयमपि सर्व प्रायः समं, नवरं किंचिद्विशेषोऽस्ति स लिख्यते— " परियाओ दीहो बंभचरेस्स पुवंति प्रथमद्वारे, तथा परिसद्वारे अप्पओ वा जइ नवं दीहामितो लोगो सन्नीई मुइहित्ति । अपि च- ' प्रावचनी धर्मकथी ' इति श्लोकः, तथा पवयणभत्ती ण कया होई एतस्याग्रे तत्र “ जे अभत्तिमतेहिंतो दोसा ते सो करेजा, रुट्टो जहा अहवालगवायगेण बंधाविया साहू जो य सो अभत्तिमतो दोसे काहिइ तो तेण सयं चैत्र कया भवंति, एसा अम्हविही, तस्स जं जोगं तस्स तं कायव्यं ति । " अतः स्थितमिह शुद्धयतिभिरपि कारणे वन्दनादिकं विधेयं पार्श्वस्थादीनाम् । ये पुनर्भवन्ति पार्श्वस्था उपलक्षणत्वादस्य अवसन्नादयश्चेत्यपि द्रष्टव्यम्, एतैर्मलिनाचाररूपैर्नो नैव युज्यते घटते तेषामुत्सर्गवादिनामिदं वन्दनादिनिषेधं भणितं वक्तुमिति गायत्र्यार्थः ।
तानेव पादोनगाथाचतुष्केणाह -
पोरिसिं नो करेइ गिण्हे परपर वायं । पढइ धम्मकहाओ पडिलेहइ णेय थंडिले ॥ १८ ॥ विगई आहारे नि कपि च बंधे । गामं कुलं ममायइ परिहवई तहय रायणिए || १९ ॥
For Private And Personal Use Only