________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ९८ ) एतस्य-मद्विष्टशाक्यादेश्चित्तसंतापो-मानसखेदः, द्वेषेण-मत्सरेण, एवम्-इत्थं, दान वितरणं, 'भवति' इति क्रियाध्याहारः; तयोरपि-रागद्वेषदानयोः, जानीहि-अव. गच्छ, अमु-निर्दिष्टम्, अर्थमभिधेयम्, इसि गाथार्थः ।। पराभिप्रायमाशङ्कयाहसंजयविवक्खभूया पासत्थाई असंजया एत्थ ।
भन्नंती नोअन्ने, अह तं नो, जेण सुत्तमिणं ॥ २८ ॥ व्याख्या-संयतविपक्षभूना-प्रतिपतिपक्षसहशाः, पार्श्वस्थादयः-प्रनीता, असंयता-असंयतशब्दवाच्याः, अत्र पूर्वोक्तवाक्येषु, भण्यन्ते, प्रोच्यन्ते, नो-नैव अन्येशाक्यादयः अथ पराभिप्रायार्थः। तत्परोक्तं, नेति निषेधे, यस्मात्सूत्र-सिडान्तवचनमिदं वक्ष्यमाणम् इति गाथार्थः ॥
तदेवार्थतः माह
जीवेणं असंजय-अविरयएमाइगुणजुओ भंते ! ।
अण्हाइ पावकम्मं हंता अण्हाइ पडिवयणं ।। २५९ ॥ व्याख्या-जीवः-प्राणी, 'ण' इत्यलङ्कारे, असंयनः संयमाभावात्, अविरतः प्रत्याख्यानाभावात, एवमादिगुणयुक्तः-इत्थं प्रभृतिगुणसहितः; 'भदन्त ' इति श्रीवीरामन्त्रणे, 'अण्हाइ 'त्ति-आश्रवति, पापकर्म-ज्ञानावरणादि, ? 'हना' इति गौतमामंत्रणे, 'अण्हाइ 'त्ति 'आश्रवति पापकर्म' इति प्रतिवचनमुत्तरम् । तथा च भगवन्तं प्रति गौतमो भगवत्यादाविदमाह-"जीवेणं भंते असंजए अविरए अपडिहयपञ्चक्खायपावकम्मे पावं कम्मं अण्हाइ ? हन्ता गोयमा ! जीवेण मित्यादि तदेव वाच्यमुत्तरम्, अतः स्थित मिह सामान्येनासंयतो जीवो भण्यते इति गाथार्थः ।
व्यतिरेकं सपादया गाया पाह
जई पुण पासत्थाई असंजया एत्व होति विन्नेया । तो कह सम्मत्तस्स उ एस गुणो होज सड्ढाणं ॥ २६० ॥
For Private And Personal Use Only