________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लिङ्गोपजीविनो-गुणशून्यस्य प्रतिनः साधोः, इति गाथार्थः ॥
उत्तरमाहतत्थवि एवं बुज्झसु तं पइ अप्पमाणमेव सो बेसो ।
जो निस्संकं वदृइ असुहहाणेसु तेण जुओ ॥ २४८ ॥ व्याख्या-तत्रापि-वेषनिराकरणे, बुध्यस्व-जानीहि, तं प्रति-तमाश्रित्य, अ. प्रमाणमेव-निष्फलः, स पेषो-रजोहरणादिः, योऽनिर्दिष्टनामा, निःशक नि. रपेक्षं, वर्तते, अशुभस्थानेषु साध्वयोग्येषु, तेन वेषेण, युतः सहितः, इति गाथार्थः। एतदेव भावयन्नाह
दुग्गइगईए गच्छंतयस्स न हु तस्स तेण साहारो।
ववहारा अन्नेसिं तस्सवि लिंगं पमाणं तु ॥ २४९ ।। व्याख्या-दुर्गतिगत्यां-नरकादिकायां, गच्छतो-व्रजतः, न च, हुरवधारणे, तेन वेषेण, तस्य लिङ्गोपजीविनः, साधारः परित्राणम्, व्यवहारात् व्यवहारनयमतेन, ( अन्येषां) तस्यापि-लिङ्गोपजीविनोपि, लिङ्ग वेषः, प्रमाणमेव, तुरवधारणे. इति गाथार्थः ॥ व्यतिरेकमाह
जइ न पमाणं तो कह णु कप्पगमि एरिसं वुत्तं ।
सुविहियजईण इयरं पडुच्च एयाए गाहाए ॥ २५० ॥ व्याख्या-यदि, नेति निषेधे, प्रमाण लिङ्गमिति शेषः, ततः, कथं, 'नु' इति वितर्के, कल्पग्रन्थे-प्रतीते, ईदृग्-वक्ष्यमाणम्, उक्तं भणितं, सुविहितयतीनां प्रधानसाधूनाम्, इतरं लिङ्गोपजीविनं, प्रतीत्याश्रित्य, उपलक्षणत्वाद्वि शिष्टं चेत्यपि द्रष्टव्यम, एतद्गाथया, इत्यर्थः ।। तमेवाहलिंगत्थस्स उ वज्जो तं परिहरओ व भुंजओ वावि । जुत्तस्स अजुत्तस्स व रसावणो एत्थ दिठंतो ॥ २५१ ॥
For Private And Personal Use Only