________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ४ ) अपरे तद्दोषविकत्थनया अस्यापराधपुनःपुनर्भणनेन लोकानां श्रावकाणां सापेक्षाः तदभिप्रायानुवर्तकाः ॥ ६॥ तथा तेन प्रकारेण प्रज्ञापयन्ति कथयन्ति 'धर्म' श्रुतचारित्रलक्षणं 'यथा' येन प्रकारेण 'निजपक्षस्य' स्वमतस्य भवति' जायते 'परा' प्रधाना हृस्वत्वं चात्र 'एए छच्च समाणा" इति प्राकृतप्रभवम् ‘पुष्टिः ' षोतः । ' जानन्ति ' अवबुध्यन्ते 'नैव' न च मूढाः परमार्थतोऽद्य 'आत्मानं ' स्वं वश्चयामो विप्रतारयामः ' एवं ' अमुना प्रकारेग ।। ७ ॥ यथा शरणमुपगतानां जीवानामित्यादि निश्रु. त्याऽपि न केवल मश्रुत्वा इत्यपेरर्थः । आदिग्रहणादेवं दृश्यं - "निकियई सिरे जोउ एवं आयरिओ वि हु उस्तुत्तं पन्नवितो उ" सुगमं च । 'अपकर्णितभवदंडा' अवधीरितसंसारभयाः, किलेति आत्लरुचिसं सूचकाः 'सत्यप्ररूपकाः' अवितथदेशकाः · अम्हे 'त्ति वयम् । इति गाथात्रयार्थः ।। ८ ॥ यदि ते एवंविधास्तर्हि किं कर्त्तव्यम् ? इत्याह -
मा देसु तेसु मणयंपि माणसं माणमुव्वतेसु ।
धम्मरयपुव्वसूरीण मग्ग भंगं कुणंतेसु ॥ ९ ॥ 'मा ' इति निषेधे ‘देहि' प्रयच्छ ‘तेपु' अभेदोपचारात्तद्वचनेषु, 'मनागपि ' स्तोकमपि ' मानसं ' अन्तःकरणं, मान गर्न — उद्वहत्सु ' धारयमाणेषु, 'धर्मरतपूर्वसूरीणां' उद्युक्तविहारिचिरन्तनाचार्याणां 'मार्गभंग पदवीलोपं 'कुर्वत्सु' विदधत्सु । 'शीतलविहारिसमाचीर्ण मार्गभङ्गेऽपि न दोषः' इत्यावेदनार्थ 'धर्मरत' इति विशेषणम् । अयमभिप्रायः-यत्किमप्यत्र प्रकरणे प्रतिपादयिष्यति प्रकरणकारस्तत्सर्व धर्मरतपूर्वाचार्यैरनुष्ठितं किंचिकरणतः किंचित्कथनतः किंचिच्चानुमतेरिति मत्वा मोहं हित्वा स्वाग्रहं विहाय आदरं विधाय धार्थिभिरत्रोक्तं तथेति प्रतिपत्तव्यम् इति गाथार्थः ॥९॥ - साम्प्रतं यदुक्तं 'धर्मरतपूर्वाचार्यमार्गभङ्गं कुर्वत्सु ' इति दर्शयन्निदमेकीयमतं गाथया प्राह । अयं च संबन्धस्सर्वेष्वप्यधिकारेषु सम्बन्धनीयः सामान्येन, अतः प्रत्यधिकारं तन्न भणिष्यामः । आद्याधिकारद्वयस्य तु विशेषण पूर्वमुपादानं सम्यक्त्वनिम्मेली करणार्थम् । सर्वज्ञप्रतिकृतिः साधुः, यथावस्थि
For Private And Personal Use Only