________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharya S
amsun Gyanmanda
4%ACHA%
अगाद् बाङ्गडोदं पूर्वोत्सवेन, स्वविक्षत् पुराऽन्तः समं भूरिलोकैः ॥ ११२ ॥ प्रबोधं जनानामपूर्व व्यदत्त, सदादेयधर्मोपदेशैमहद्भिः। पयोमुनिनादानुका रवेण, कुतर्काऽऽदिशङ्कासमुच्छेदकर्ता ॥ ११३ ॥ (स्रग्विणी)-सद्गुरुभूरिशिष्यस्ततः प्रस्थितः, सेमलीयाऽभिधं पचनं सङ्गतः । नागराऽशेषलोकभृशं सत्कृतो, देशनां सर्वलोकोपकारी ददौ ॥ ११४ ॥
(तोटकम् )-सरसीनगरीमयमागतवान् , विहरन् क्रमशः करुणानिलयः । बहुमानपुरस्सरमानयत, नगरान्तरमुं पुरवासिजनः ॥ ११५ ।। ददिवानुपदेशममोघमसौ, कृतवान् प्रतिबुद्धतरान् सुजनान् । परिहापितवान् व्यसनं सकलं, जिनशासन-काननचारिहरिः ॥११६ ॥ (भुजङ्गप्रयातम् )-ततो जावराख्यां पुरीमार मार-विजेता सुवक्ता प्रदाता सुबुद्धेः । समस्तः सुसंघो महाऽऽडम्बरस्त, प्रणिन्ये पुरान्तः समं शिष्यजातैः ।। ११७ ।। ददी चोपदेशं भवाम्भोधितारं, सुरेन्द्राऽऽधिपत्यप्रदातारमेषः । जगत्यन्धकूपे पतञ्जीवजात-समुद्धारकारं स्वधर्मप्रचारम् ॥ ११८ ।।(शार्दूलविक्रीडितम् )-रोजाणानगरीमगच्छदनपश्चारित्रदीप्त्योल्लसन् , सद्धर्मद्रढिमानमत्र सुजनैरानीनयमूरिराद् । सद्धोधाऽमृतपायकः श्रुतधरः शीतांशुवच्छीतलो, निर्धताऽखिलकल्मषः सुतपसा प्रध्वस्तमोहाऽऽदिकः ॥ ११९ ।। (वसन्ततिलका)-दिगणोदनाम नगरं समुपेत्य तत्र, बहादरेण सुजनैरतिसत्कृतः सन् । धर्मोपदेशसुधया परितर्प्य लोकान् , सद्धर्मसारमखिलान् समबूबुधत्सः ॥ १२०॥
(उपजातिः)-विहृत्य तस्माद्गुणदीमयासी-दलब्ध सत्कारमशेषलोकैः। सद्देशनां ज्ञानकरी प्रदाय, सोऽजहरीत्सर्वजनस्य मोहम् ॥१२१।। तालं विशालं नगरं सहाऽसौ, सच्छिष्यवृन्दैः समयाम्बभूव । महोत्सवैस्तत्र पुरीनिवासी, पुरप्रवेशं कृतवानमुष्य ॥१२२।। संसारदुष्पारमहासमुद्रे, नानाऽऽधियादोगणदुस्तरेऽस्मिन् । जराविपत्रासमहातरङ्गे, पोतायितं धर्ममुपादिशत्सः।।१२३।।
)
१४
For Private And Personal use only