________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys
Ka
u n Gyanmand
| श्रीजिनानां, बिम्बान्यालोकमानः प्रतिनगरमसौ शुद्धधर्मोपदेशम् । कुर्वाणोऽखण्डशीलो जिनपदकमलध्यानलीनो महात्मा, शान्तो दान्तः प्रधूताऽखिलमलपटलः सच्चरित्रः पवित्रः ॥ ८९ ॥ (वैतालीयम्)-राजनगरमागतस्ततः, प्रविवेश पुरी चारुसूत्सवः । व्याजहार धर्मदेशना, धर्ममूर्तिरिव पापनाशिनीम् ॥ ९०।। ( उपजातिः)-विहत्य तस्मात्सह शिष्यवृन्दैरागाबरोडानगरं महीयान् । संघस्तदीयं कृतवान् प्रशस्य, पुरप्रवेशं महतोत्सवेन ॥ ९१ ।। चरित्रनेता कमनीयमत्र, धर्मोपदेशं कृतवान् समित्याम् । प्रमाणवर्ज जनता समेता, निशम्य लेमे बहुबोधिबीजम् ।। ९२॥ (द्रुतविलंबितम् )-कपडबजपुरीमित आययौ, पटह-काहल-दुन्दुभि-बेण्डकैः । गुरुवरं पुरमानयताऽऽदरान्, मुदित एतमशेषपुरीजनः ।। ९३ ॥ अददताऽधकदम्बविनाशक, जननमृत्युभयच्छिदमुत्तमम् । कुमतिवारकसन्मतिदायक, सदुपदेशमसौ सदसि प्रभुः ॥ ९४ ॥ (उपजातिः) इतः समागात पुरि गोधरायां, प्रावेश्यताऽसौ महता महेन । संसार-चक्र-भ्रमणाऽपहारी(रा), सद्देशनां धीरगिराऽददिष्ट ।। ९५ ॥ स दोहदग्राममथाऽऽगमञ्च, वादिननादैर्वधिरीकृताऽऽशैः । पुर्यन्तराविश्य महोपदेशं, प्रादादुदार भवमुक्तिकारम् ॥९६॥ कृत्वा विहारं तत आजगाम, रम्भापुरं भावुकसत्गृहस्थाः । आनीतवन्तो नगराऽन्तरेतं, वपुः-प्रभाभासित-दिग्विभागम् ।। ९७॥ आकण्ये रम्यां घनघातिकर्म-निश्शेषकीमभयप्रदात्रीम् । तद्देशनां स्त्रीपुरुषाऽऽदिलोका, आपुःप्रबोध भवमोहमोचम् ॥९८॥ (स्रग्विणी)-झाबुबाराजधानीमितश्चाऽऽययौ, सत्कृतः पौरलोकरशेषेभृशम् । हारिणीमापदा दायिनी सच्छ्रियः, सन्ददौ देशनां सद्गुरुः सरिराट् ॥ ९९।। ( उपजातिः)-विहृत्य राणापुरमेष तस्मा-दायिष्ट भूयिष्ठगरिष्ठवाधैः । प्रविश्य लोकानमृतायमान-धर्म जिनेन्द्रोदितमाचचक्षे ॥ १०॥ (तोटकम् )-पिटलादपुरीं सकलर्द्धिमती,
For Private And Personal use only