________________
SanMahavir.Jan.AmchanaKendra
Acharya Shin Kansagan Gyanmandir
प्रवृत्तोत्सवौधैः। अविक्षत्तदन्तः सुधोद्गारिवाचा, ददौ देशनां श्रोत्रपीयूषधाराम् ॥ २०९ ॥ इतो जामवाडीपुरीमाससाद, भृशं सत्कृतः पौरलोकरशेषैः । उपादेशि तत्राऽमुना शुद्धधर्मः, सुरेन्द्राऽऽदिलोकप्रदायी नराणाम् ।। २१०॥
(उपजातिः)-इतश्च शत्रुञ्जयतीर्थयात्रा, कृत्वा समामात्पुरवल्लभी सः। साच्याश्च दीक्षामिह सम्प्रदाय, खम्भातनाम्नी नगरीमयासीत् ।।२१।। (शार्दूलविक्रीडितम् )-रत्नाऽऽदिक्रय-विक्रयी भगुसुतः पानाऽभिधः श्रेष्ठिराद, आगात् सूर्यपुरादमु निजपुरं शीघ्र निनीपुर्महान् । विज्ञप्ति महतीं चकार वरधीस्तत्राऽऽशु गन्तुं गुरोः, शीघं श्रीगुरुभिर्व्यहारि सकलैः शिष्यैश्च तस्यां दिशि ।। २१२ ।। (उपजातिः )--बटोदरं सत्पुरमेत्य तत्र, लोकांश्च भव्यानुपदिश्य धर्मम् । पालेजमागत्य जिनोरपुर्या, सत्रा च शिष्यैः समुपागतोऽभूत् ।। २१३ ।। (दुतविलंबितम् )-जगडियाऽभिध-सत्पुरमाययौ, बकत तीर्थपतेरवलोकनम् । पथि मुमुक्षुजनं समदीक्षयत् , उपगतः स हि सूर्यपुरं गुरुः ।। २१४ ।। ( वसन्ततिलका)-नानयमान-पटहाऽऽदिकवाद्यवृन्दैः, शङ्खान् धमद्भिरपरैर्जयमुच्चरद्भिः। सौवर्णयष्टि-वरकेतनधारिपुम्भिः, सुश्राविका-सलयगीतरवैश्व हथैः ।। २१५ ॥ श्रीसङ्घनिर्मितमहामहमीक्षमाणः, पोपूज्यमानचरणः प्रतिसा तत्र । अन्तः प्रविश्य सह शिष्यगणैरुदारो, गोपीपुरानव उपाश्रय एत्य तस्थौ ।। २१६ ॥ संघाऽऽग्रहेण शशि-वाजि-नवेन्दुवर्षे, वर्षर्तुवासमकरोत्समवाचयच्च । श्रीनन्दिसत्रमखिलाऽऽगमसारदर्शी, चैकस्य तत्र दददे गुरुरेष दीक्षाम् ॥२१७॥ (भुजङ्गप्रयातम् )-चतुर्मासपश्चाद्विहत्याऽऽगमत्स, कतारं प्रसिद्धं पुरं तत्र लोकैः कृता सत्कृर्ति चोररीकृत्य भूरि, ददौ चोपदेश महान्तं जनानाम् ।। २१८ । (उपजातिः)-मार्गस्थितानेककठोरकाऽऽदि-पुराणि गत्वा प्रतिबोध्य लोकान् । सद्बोधिबीजं ददिवान्महीयान्, प्रहापयन्मोहमशेषमेषाम् ।। २१९ ।।
643535AC4564545464560
For Private And Personal Use Only