________________
SinMahavir.jan AradhanaKendra
www.kohatirtm.org
Acharys
Kalasagaran Gyanmada
द्वितीय सर्गः।
श्रीजिनकृपाचन्द्र
सरिचरित्रम् ॥७०॥
तनगर प्रशस्तम् ।। १७४ ।। (इन्द्रवंशा)-नानद्यमानैर्वरखेण्डकाऽऽदिमिः, श्रीसंघकाऽऽरन्धमनोहरोल्सवैः । सुश्रावकाऽशेष-महर्द्धिकेभ्यकै विन्धमानः पुरमाविवेश सः ॥ १७५ ॥ नवाङ्गनन्द-क्षितितुल्यवर्षे, वर्षतुवासं विपुलाऽऽग्रहात्सः । कोठारिपोल-स्थित-नव्यकोपा-श्रये बकार्षीत्सह शिष्यवगैः ॥ १७६ ॥ सुधाऽधरीकारिमहोपदेशै-र्भवाब्धितारैरघराशिहारैः । श्रीसंघमत्यन्तमसौ प्रतणे, प्रादिद्युतच्छासनमाहतं सः॥ १७७ ॥ ततो ययौ पानसरं सशिष्यः, पौरैध सर्वैरतिसत्कृतोऽभूत् । प्रबोधयामास जनांच तत्राऽ-मोघोपदेशैः सकलार्थसारैः ॥ १७८ ।। स भोयणीपत्तनमेत्य चक्रे, शकेश-पार्श्वप्रभुदर्शनं च । सञ्चकुरेतं पुरवासिनश्च, श्रद्धालवः श्राद्धगणा अपीह ।। १७९ ।। (वैश्वदेवी)-तारङ्गातीर्थ सङ्गतोऽसौ महात्मा, वन्दित्वा भक्त्या संस्कृतोक्त्या जिनेन्द्रम् । दचा भव्यानां सम्प्रबोधं यथेष्टं, दीनानाथत्राता विजहे च तस्मात् ।। १८०॥
(वसन्ततिलका)-वीसाऽऽदिकं नगरमागतवान् क्रमासः, श्रीसंघ-रम्य-रचितोत्सवमीक्षमाणः । पुर्यां प्रवेशमकरोदनिलप्रभोऽसौ, धर्मोपदेशममृतं सकलालपिष्यत् ॥ १८१ ॥ ( प्रमुदितवदना )-वडनगरमितो विहृत्याऽगमत् , पुरजनरचितोत्सवैरुज्वलैः । अविशदयमनल्पधीस्तत्पुरं, जलद-ख-गिरा ददौ देशनाम् ॥ १८२ ।। (उपजातिः)-पथि क्रमादागतांस्ततोऽयं, नाम्ना च लादोलपुरं गरीयान् । प्रवेशितः स्वम्पुरमादरेण, संधैरशेष रचितोत्सवेन ।। १८३ ।। संसारविस्तारहरीमघौघ-बिद्राविणी धार्मिकदेशनां च । प्रदाय सर्वान् भविकानतीत, सत्यप्रवक्ता भवबार्द्धितारी ।। १८४ ॥
(आख्यानकी)--इयाय वीजापुरमेष तस्मात् , कृत्वा विहारं सुधियश्च पौराः । वादित्रवृन्दैनगरप्रवेश-मकारयंस्तेन * महीयसा हि ।। १८५) ( उपजातिः)-जीमूतनादानुकृता स्वरेण, श्रीवीतरागोदित-शुद्धधर्मान् । स्वर्गाऽपवर्ग-प्रतिपत्ति
॥ ७० ॥
For Private And Personal use only