________________
Sa
n
Antara Kenda
Acharya Sh kanssagan Gyarmand
गतं विद्यावतामादिमम् । अत्युचर्जनताकृतैर्जयस्वैस्तुङ्गैरनेकैर्वजैः, श्रीसंघो गुरुराजमेनमनघं प्रावेशयत्स्वम्पुरम् ॥ १३९ ।।
(वसन्ततिलका)-आनन्दयन् सकलसंघमयं महात्मा, धर्मोपदेशमददाबहुलार्थसारम् । संथुत्य सर्वजनता मुदिता भवन्ती, त्यागाऽऽदिनकनियम जगृहे तदानीम् ।। १४० ॥ (उपजातिः)-ततः क्रमादायत मोरबी स, श्रीसंघ एतं प्रचुरोत्सबेन । प्रावीविशत्वं पुरमादरेण, गुर्वागमेनाऽतिमुदं दधानः ॥१४१॥ (इन्द्रवंशा)-ओजस्विनीमेप ददौ सुदेशनां, सर्वस्य हृयाऽऽखिल-बहनच्छिदाम् । दुपार-संसार-समुद्रतारिणी, संश्रुत्य सम्यक्त्वमयुध सजनाः ।। १४२ ।।।
(भुजङ्गप्रयातम)--रणं मालिकायाः समुल्लकच कच्छ, पुरेऽञ्जारके यातवानेप धीरा। ददर्शाशु भद्रेश्वरस्थ जिनेन्द्र, निजं जन्म धन्यं स मेने तपस्वी ।। १४३ ।। इतः कच्छमुन्द्रामयासीत्सशिष्यो, नदद्वेण्टु-शताऽऽदिकध्वान-गीतः। पुरीयप्रवेशे ततं सूत्सवं हि, प्रचक्रेऽस्य संघस्ततस्त्यः समस्तः ॥ १४४।। (उपजाति:)-मही-सोऽङ्क-वितिसम्मिताऽब्दे, वर्षर्तवासं जनताऽऽग्रहेण । सच्छिष्यपन्देः परिजुष्यमाण-श्रके महीयामड़तपारचा ।। १४५ ।। अत्रोत्तराऽऽद्यध्ययनश सूत्र, सभाऽऽसनाऽऽसीन-विलीनरागः । जीमूतनादाऽतिगभीरवाचा, संश्रावयामास जनानशेषान् ॥ १४६ ।। ततोऽगमत्कच्छभुज विहृत्य, बुपस्थितं तं नगरोपसीमम् । वेण्डाऽऽदिवायैः सह सर्वसंघः, प्रवेशयामास पुरं प्रहृष्टः ।। १४७ ॥ नेत्राऽङ्गानन्देन्दुमिते च वर्षे, पौराऽऽग्रहात्प्रावृपि तत्र तस्थौ । जोजुष्यमाणक्रमपङ्कजोऽसौ, शान्तस्वभावो यमिनां वरिष्ठः ॥ १४८ ॥
(मनोरमा)-भगवतीमिहाऽसको गुरुः, सुजनताऽऽग्रहादयाचयत् । घन-खाऽनुकारिवाचया, मधुरया सुधासमानया ॥ १४९ ॥ ( इन्द्रवंशा)-कच्छीयरम्यामथ माण्डवीपुरी, सम्प्राप शिष्यः सहितो महान् गुरुः । प्रावेशि
For Private And Personal Use Only