________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नो योगी नच योगिनी नच नराधीशश्च,नो शाकिनी नो वेत्तालपिशाचराक्षसगणा नो रोगशोको भयं । नो मारी नच विग्रहप्रभृतयः प्रीत्या प्रणत्युच्चकैः। यस्ते श्रीजिनदत्तसूरिगुरवो नामाक्षरं ध्यायति ॥३॥
सिद्धान्तसिंधुर्जगदेकबन्धुः। __ युगप्रधानप्रभुतां दधानाः॥ कल्याणकोटीः प्रगटीकरोतु ।
सूरीश्वरः श्रीजिनभद्रसूरिः॥४॥ मंगलं भगवान् वीर , मंगलं गौतमप्रभुः। मंगलं थूलिभद्राद्या, जैनो धर्मोऽस्तु मंगलं ॥५॥ उपसर्गाः क्षयं यान्ति, छिद्यन्ते विघ्नवल्लयः । मनः प्रसन्नतामेति, पूज्यमाने जिनेश्वरे ॥ ६ ॥ सर्वमंगलमांगल्यं, सर्वकल्याणकारणम् । प्रधानं सर्वधर्माणां, जैनं जयति शासनम् ॥७॥
एवं समग्रतया संक्षिप्तप्रकारेण श्रीवर्धमानजिनपति मुख्यशिष्ययुगप्रधानपदभृत् श्रीइन्द्रभूति श्रीसुधर्मादि युगप्रधानसूरीणां शेषनरीणां च मुख्यपट्टधरतयाऽद्यावधिपर्यन्त यथामतिः प्रभुभक्त्या वंशो व्यावर्णितो मया शिवायते सन्तु, प्रथमोदये २० द्वितीयोदये २३ तृतीयोदये १५ एवं समभवन् समग्रतया युगप्रधान सूरयः अष्टपंचाशदिति, जिनचन्द्र जिनपत्यादि अष्टसप्तमे, जिनचन्द्र जिनसिंहादि मुनि अष्टमे, एवं भवंति अष्टपंचाशदिति, एवं श्रीसु. धर्म वंशोऽविछिन्नरीत्यादर्शितः, अथान्तिम मंगलाचरणम्, तीन
For Private And Personal Use Only